OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 11, 2017

ऐ एस् भीकरा: सौदी अरेब्याम् प्रति युद्धं प्रख्यापितवन्त:
दुबाय् > सौदी अरेब्याम् प्रति युद्धम् प्रख्याप्य  ऐ एस् भीकरा: रङ्गे। टेहराने सप्तदशजनानां  हननकारणभूतस्य  आक्रमणस्य उत्तरदायित्वं स्वीकृत्य अनन्तरमपि सौदी अरेब्यायाम्  आक्रमणं कर्तुम् ऐ एस् निर्णय: अभवदिति  सैट् इन्टलिजन्स् निरीक्षणसङ्घ: आवेदितमस्ति। टेहरान् आक्रमणस्य  किञ्चित् पूर्वमेव मुखाच्छादकं धृत्वा पञ्च ऐ एस् भीकरै: कृत:  भीषणसन्देश: अन्तर्जालपटे आगत:। इरानस्य षिया मुहम्मदान्  सौदी अरेब्याया: सर्वकारांश्च भीकरा: भीषणं कुर्वन्ति। " भवतां राष्ट्रम् अतिक्रम्य  भवत: विरुद्ध्य आक्रमणं  कुर्म:।  वयं कस्यापि सहयोगिन: न भवाम: । वयम् अल्लाहौ तस्य दूते च विश्वसिम: " इत्यपि दृश्यचित्रसन्देशे वदन्ति ते। पूर्वमेव सिरियाया: इराखस्य च केषाञ्चन प्रदेशानां नियन्त्रणम्  ऐ एस् भीकरा: स्वीकृतवन्त:। किन्तु सौदीसुरक्षासेनाया: आक्रमणात्  बहुप्रदेशेभ्य: तै: पलायनं करणीयम् अभवत्। स्वीयविरुद्धशक्तिं सौदीम् अधीनं कर्तुं समर्थान् पद्धतीन्  दृढनिर्णयैस्सह रचयन्ति ऐ एस् भीकरा:।