OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 1, 2017

अनङ्गीकृतान्  आङ्गलमाध्यमविद्यालयान् प्रतिषिद्ध्य नियमक्रम: आगच्छति।  
कण्णूरु>शिक्षाधिकारनियमस्य पादं गृहीत्वा अनङ्गीकृतान् आङ्गलमाध्यम-विद्यालयान् प्रतिषिद्ध्य केरले नियमक्रम: आगच्छति। प्रारम्भरूपेण राज्यस्तरे एव आहत्य कति एतादृशविद्यालया: सन्तीति गणनां कृत्वा शिक्षाविभागेन तत् प्रसिद्धीक्रियते।  तन्मध्ये विविधमण्डलेषु  केचन विद्यालया: कीलितुं सन्नद्धा: पुरतः आगता:। कण्णूरुमण्डले एव उपत्रिंशत् संस्था: इत्थम् पुरतः आगता:। कील्यमानविद्यालयछात्रा: तत्समीपस्थसर्वकारविद्यालयम् प्रविशन्ति। तिरुवनन्तपुरम्, कोल्लम्, कोषिक्कोड्, मलप्पुरम् जनपथेषु च एतादृशविद्यालया: अधिका: ।  प्राय: पञ्चशतोत्तरसहस्रं (१५००) त: द्विसहस्रं (२०००) पर्यन्तं ते भवितुमर्हन्ति। स्थानम्, भवनम्, अन्यप्राथमिकसौकर्याणि  योग्या: शिक्षका: च विना प्रवर्तमानेषु एतेषु  सी बी एस् ई द्वारा  अङ्गीकारोपि न लभन्ते। पश्चात् अङ्गीकार: स्वायत्तीकरिष्यति इति वाग्दानेन सह छात्रान् प्रवेशयन्ति च। अनङ्गीकृतेषु तेषु प्रवेशो मास्तु छात्रान् सर्वकारविद्यालयम् प्रवेशयन्तु इति सामान्यशैक्षणिकाध्यक्षेण प्रतिवर्षं निर्देशो दीयते। किन्तु किमपि न सम्भवति । प्रबन्धकसहकरणसमित्या: स्वाधीने  यथापूर्वं कार्याणि  सफलानि  च सम्भूतानि । अस्मिन् वर्षे मण्डलस्तरे एव गणनां कृत्वा अनङ्गीकृतसंस्थानाम् आवलि: बहि: प्रकाशयितुम् उद्देश्यते।  अनवधानतया  छात्रा: ता: संस्था: मा प्रविशेयु: इति उद्दिश्य एवं क्रियते। शिक्षाधिकारनियमस्य कर्शनस्वीकारेण एतेषां सुस्थिति: विनष्टा भवेत् इति शिक्षाविभागेन उच्यते। सन्दर्भेस्मिन् सर्वकारविद्यालयेषु  छात्राणां सङ्ख्या वर्धिता च।