OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 20, 2017

स्वकार्यतां विना अन्यान्  अधिकारान्  संरक्षितुं नैव शक्यते - परमोन्नतनीतिपीठ:।।
        लेखिका -रम्या पी यु
    नवदिल्ली> स्वकार्यता नास्ति चेत् अन्यान् अवकाशान् प्रावर्तिकं कर्तुं नैव शक्नुम: इति परमोन्नतनीतिपीठस्य निरीक्षणम्।  स्वकार्यता पौरस्य मौलिकावकाशो वेति नियमवादे नवाङ्गदीर्घपीठिकया वादश्रवणाभ्यन्तरे न्यायाधीशस्य एस् ए बोबडे महाशयस्य निरीक्षणम् एतत्।  आधारस्य शासनघटनासाधुताम् पृच्छ्यमानायां नियमापेक्षायां परमोन्नतनीतिपीठेन  वादम् अनुवर्तते। आधारपत्रस्य शासनघटनासाधुतां निश्चिनोतुम् प्रारम्भक्रियारूपेणैव स्वकार्यता मौलिकावकाशो वेति नवाङ्गदीर्घपीठिकया परिशील्यते। न्यायाधीशस्य जे एस् केहारस्य अध्यक्षतायां दीर्घपीठिकाया: पुरत: नियमापेक्षकाणां कृते वादे प्रवृत्ते सर्वोन्नताभिभाषक: गोपालसुब्रह्मण्यम् स्वकार्यताया: अवकाश: सर्वकारानुकूलो नेति व्यक्तीकृतवान्।  स्वकार्यता इत्येतत् शासनघटनाया: हृदयम् तथा आत्मा च भवति। तत्तु स्वतन्त्रतायाम् आभिजात्ये च रूढमूलं च।  स्वकार्यतायै अन्यानामवकाशानां छायायां स्थातव्यमिति नास्ति।  शासनघटनया रूढीकृतस्य सविशेषावकाशस्य स्वातन्त्र्यस्य प्रधानघटकमिदम्।  स्वातन्त्र्यहानिकराणि प्रवर्तनानि स्वकार्यताहानिकराण्यपि भवेयु: इति स: प्रस्तावितवान्।   स्वकार्यता मौलिकावकाशो नास्तीति चतुष्पञ्चाशदुत्तरनवदशाधिकसहस्र (1954) तमे एम् पी शर्मावादे अष्टाङ्गदीर्घपीठिकया, द्विषष्ट्युत्तरनवशताधिकसहस्रतमे खरकसिंहवादे षडङ्गदीर्घपीठिकया च विधीतम्।   स्वकार्यता मौलिकावकाशो नेति एतान् विधीन् सामान्यवत्कर्तं न शक्यते इत्यपि स: न्यायालये व्यक्तीकृतवान्। शासनघटनाविदग्ध: सोली सोराब्जी, श्याम दिवानश्च एतानि वीक्षणानि सबलीकृतवन्तौ।  किन्तु स्वकार्यता नास्ति चेत् अन्यावकाशान् साधयितुं न शक्यते इति न्यायाधीश: एस् ए बोबडे निरीक्षितवान्।  शासनघटनाविषये नवाङ्गदीर्घपीठिकया निर्णये स्वीकृते परम् आधारस्य साधुता पञ्चाङ्गदीर्घपीठिकया परिशील्यते। आधार: जनानां स्वकार्यताम् प्रति अतिक्रमणमिति आरोप्य विविधन्यायापेक्षा: परमोन्नतनीतिपीठमागता:।  न्यायापेक्षा: गतदिने मुख्यन्यायाधीशस्य नेतृत्वे पञ्चाङ्गदीर्घपीठिकया परिगण्यमानवेलायां स्वकार्यता मौलिकावकाशो नेति परमोन्नतनीतिपीठस्य पूर्वनिर्णया: सूचयन्ति स्म अटोर्णि जनरल् के के वेणुगोपाल:।  पूर्वम् अष्टाङ्गदीर्घपीठिकया स्वकार्यता मौलिकावकाशो नेति विधीते तां विधिनिर्णयम् पुन:परिशीलयितुमेव नवाङ्गदीर्घपीठिका रूपीकृता।