OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 14, 2017

असमराज्ये साहाय्योद्धारकार्यं प्रचलति
असमराज्ये जलौघस्य स्थितिः गभीरा वर्तते। ब्रह्मपुत्रनद्याः जलस्तरं पञ्चस्थानेषु संकटचिह्नादुपरि समागतम् । वार्ता स्रोतोभिः विज्ञायते यत् राज्यस्य चतुर्विंशतिः जनपदानां प्रायः सप्तदशलक्षाधिकजनाः जलौघेन प्रभाविताः सन्ति । राष्ट्रियापन्मोचनबलेन राज्यापन्मोचनबलेन  आरक्षिबलेन च सप्तजनपदेषु भूयोSपि सार्धद्विसहस्रजनाः सुरक्षितस्थानेषु समानीताः ।
    मुख्यमंत्रिणा सर्वानन्दसोनोवालेन गतदिने सर्वाधिकप्रभावितस्य  मजूली क्षेत्रस्य  सहाय्योद्धारशिबिरेषु जनैः सह मेलनं कृतम् । अत्रान्तरे
केन्‍द्रीयगृहराज्‍यमंत्रिणः किरेणरिजीजोः नेतृत्वे उच्‍चस्‍तरीयकेन्‍द्रीयदलं पूर्वोत्‍तरस्य जलौघेन प्रभावितक्षेत्रेषु साहाय्योद्धारकार्याणां समीक्षा करिष्यति । प्रधानमंत्रिणा नरेन्द्रमोदिना प्रकरणेस्मिन् दु:खं प्रकटयता केन्‍दप्रशासनस्य सकलं संभाव्यसाहाय्यं समाश्वासितम्