OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 30, 2017

चैनासीमायां सप्तविंशति: मार्गा: निर्मिता:,षट्चत्वारिंशन्मार्गा: पञ्चवर्षाभ्यन्तरे; -केन्द्रम्।। 
     नवदिल्ली>भारत- चैना सीमायां त्रिसप्तति: मार्गाणां निर्माणाय अनुमति प्राप्ता, तेषु सप्तविंशतीनाम् मार्गाणाम् निर्माणानि पूर्तीकृतानि इति केन्द्रसर्वकार:। अवशिष्टानां षट्टत्वारिंशन्मार्गाणां निर्मिती: द्वाविंशत्युत्तरद्विसहस्रतमे डिसम्बर् मासाभ्यन्तरे पूर्तीकरिष्यति इति केन्द्रप्रतिरोधसहमन्त्री सुभाषब्रह्मा लोकसभां ज्ञापितवान्।
 वनम्, वन्यजीवि, परिस्थिति - विभागानाम् अनुमतिर्न लब्धेति कारणेन मार्गनिर्माणे विलम्ब: अभवदित्यपि स: व्यक्तीकृतवान्। तदपि न, शक्ता: शिला:, वातावरणव्यतियानानि,भूमिप्राप्त्यै विलम्ब:, प्रलयादिप्रकृतिदुरन्ता:, एतेपि मार्गनिर्माणे विघ्नभूतानि कारणानि। भारत-चैनासीमया निर्णायका: चत्वार: रेलमार्गा: अपि अनुमतिम् प्राप्ता: - मन्त्री लोकसभां ज्ञापितवान्। सीमां केन्द्रीकृत्य चैनया क्रियमाणेषु प्रवर्तनेषु भारतम् प्रबुद्धं वेति प्रश्ने कृते, सर्वकार: श्रद्धया एतत्सर्वं निरीक्षमाण: इति  प्रतिवचनं दत्तवान् स:। भारतसुरक्षायै यावच्छक्यं क्रियमाणानि कार्याणि कुर्वन्त: सन्तीति केन्द्रमन्त्री असूचयत्। सिक्किम् मेखलायां दोकलायाम् एकमासात् परमपि भारत- चैनासेने मुखामुखे तिष्ठत:। दोकलायां चैनाया: मार्गनिर्माणम् भारतेन प्रतिरुद्धम्, यत् सङ्घर्षाणां कारणमभवत्। एतन्मध्ये एव सीमामार्गनिर्माणकार्याणि लोकसभायाम् मन्त्रिणा व्यक्तीकृतानि।