OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 29, 2017

शतवर्षै: कुजग्रहे नगरनिर्माणं करिष्यतीति यू ए ई।। 
            अबुदाबी> बहिराकाशगवेषणाय नूतनपद्धतिभिस्सह यू ए ई मन्त्रिसभायोग:।  एतदर्थम् एकं दशांशं नव दशलक्षं चतुरश्रपादाकारकं बृहदेकं नवीनगवेषणकेन्द्रं निर्मातुमपि योगे निर्णय: स्वीकृत:। 'कुज- शास्त्रीय- नगरम्' ( मार्स् सयन्टिफिक् सिटि) इति नामकरणं कृतम् पद्धतिम् असाधारणदेशीयपद्धतिरिति विशेषितवन्त: यू ए ई उपराष्ट्रपति: प्रधानमन्त्री तथा दुबाई शासकश्च शैख् मुहम्मद् बिन् राषिद् अल् मक्तुम् योगेस्मिन्। पञ्चशतं दशलक्षं दिर्हम् व्ययम् प्रतीक्षते पद्धतो। आगामि परम्परायै उत्कृष्टशिक्षणजीवने तथा शक्तां सम्पद्घटनां दातुमेव वयं इच्छाम: इति पद्धतिप्रख्यापनावसरे शैख् मुहम्मद् अवदत्।     
               बहिराकाशगवेषणाय अवश्यसर्वसंविधानयुतपद्धते: चित्रं शैख् मुहम्मद् ट्वीट्टर् द्वारा प्रेषितवान्। वृत्ताकृतौ विद्यमानभवनानां चित्राणि तथा प्रैषयत्। सप्तदशोत्तरशताधिकद्विसहस्रतमवर्षाभ्यन्तरे कुजे नगरनिर्माणमेव यू ए ई बहिराकाशरङ्गं लक्षीकरोति इति स: गतवर्षे एव अभिप्रैतवान्।।