OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 6, 2017

कौमारपादकन्दुकमामाङ्कस्य अद्य प्रारम्भः। 
कोच्ची > सप्तदशवयसामधः वर्तितानां भुवनकौमारकाणां पादकन्दुकस्पर्धापरम्परायाः अद्य भारते प्रारम्भः क्रियते। प्रप्रथमतया एव भारतं कस्याश्चन विश्वचषकस्पर्धायाः आतिथ्यं वहति। सायं पञ्चवादने दिल्ल्यां जवाहरलाल नेहरू क्रीडाङ्कणे कोलम्बिया - घाना राष्ट्रयोः स्पर्धया 'अण्टर् - १७' विश्वचषक-पादकन्दुकस्पर्धानां समारम्भः भविष्यति।
     भारतस्य प्रथमप्रतियोगिता अमेरिक्कया सह रात्रौ अष्टवादने तत्रैव भविष्यति। भारतनायकस्य मणिप्पूर् स्वदेशीयस्य अमर्जित् सिह कियाम् नामकस्य नेतृत्वे भारतदलं पूर्णसज्जतामाप्तमस्ति। पोर्च्चुगल्  देशीयः मत्तरासी दलस्य परिशीलकः अस्ति।