OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 21, 2017

धूमयानेषु ओषजनसंभरणी स्थापनीया। 
              नवदेहली > सर्वेषु पट्टिकायानेषु ओषजनसंभरणीः  स्थापयितुं सर्वोच्चन्यायालयनिर्देशः I मुख्यन्यायाधीशस्य दीपक्मिश्रमहोदयस्य अध्यक्षत्वेन निश्चितेन संघेनैव एषः निर्देश: प्रस्तुतः आसीत्|  धूमयानेषु यात्रिकाणामकस्माद्रोगे जाते सति सपदि दीयमानां वैद्यसेवाम् अधिकृत्‍य AlMS वैद्यैः सह चर्चित्वा यथोचितकरणाय रेलविभागं न्यायालयः आदिशत् ।
धूमयानेषु आपातकालीनचिकित्सासुविधामाविष्कर्तुम् यद्यपि अयतन्त तथापि पूर्णरूपेण विजयं नालभन्त इति रेलविभागः न्यायालयम् उदबोधयत् । यानस्य कम्पनं, वेगता, शब्दः च अत्र विघ्नकारकाः आसन् । सर्वेषु यानेषु वैद्यनियोगः असाध्यः इति च रेलविभाग: न्यायालयम् उदबोधयत् ।
अस्मिन्नेव सन्दर्भे श्वासोच्छ्वासविघ्न इव आपत्कालीनसन्दर्भेषु उपयोक्तुं सर्वेषु धूमयानेषु ओषजनसंभरणीः स्थापयितुं न्यायालयः निर्दिशति स्म। यात्रिकाणां रोगबाधायां रेलविभागकर्मकराः आकस्मिकरोगावस्थां समीपस्थनिस्थानकाधिकरिणः विज्ञापयेयुः। अविलम्बेन चिकित्सालाभः कर्तव्य: च इति न्यायालयः अवदत् ।