Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

होमियो वैद्यानां स्वस्य चिकित्सालये औषध-विक्रयणाय बाधा नास्ति। अन्ताराष्ट्रन्यायालये भारतस्य विजयः न्यायाधिपपदे पुनरपि दलवीर भण्डारिः।आयकरस्य शासनविधिं समग्रं परिष्कर्तुं केन्द्रसर्वकारेण षडङ्गसमितिः नियुक्ता।

Tuesday, November 14, 2017

Bookmark and Share
अद्य शिशुदिनम्। आभारतम् अद्य शिशुदिनम् आधुष्यते। 

     नवदिल्ली>भारतस्य राष्ट्रपतिना राम् नाथ् कोविन्देन तथा प्रधानमन्त्रिणा  नरेन्द्रमोदिना शिशुभ्यः बालिका-बालकेभ्यश्च सर्वेभ्यः शुभाशंसाः अर्पिताः। भारते विविध-राज्येषु तत्तत्प्रदेशस्थैः मुख्यमन्त्रिभिः  शिशु-दिनीयसमारोहस्य उद्‌घाटनं क्रियते। क्रीडा विनोदैः पदसञ्चलनादि शोभायात्रया च दिनमिदं शिशूनां चित्तेषु सामोदं विलसेत् इत्यत्र न वर्तते कोऽपि  सन्देहः। भारतस्य प्रथमस्य प्रधानमन्त्रिणः जवहर् लाल् नेहृ वर्यस्य जन्मदिनमेव शिशु दिनत्वेन पर्वायते।