OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 20, 2017

'ओखि'दुरितबाधितान् साक्षाद्द्रष्टुं प्रधानमन्त्री आगतः, ७३४० कोटि रूप्यकाणां सविशेषयोजना आवश्यकीति केरलम्। 
         अनन्तपुरी > ओखिदुरिताश्वासाय चत्वारिंशदधिकत्रिशतोत्तरसप्तसहस्रं कोटि रूप्यकाणां सविशेषयोजना आवश्यकीति केरलस्य निवेदनम् अनुभावपूर्वं परिगणयिष्यते इति प्रधानमन्त्री नरेन्द्रमोदी सम्मतिं कृतवान्। ओखिदुरन्तस्य आघातं सन्द्रष्टुं दुरन्तबाधितान्   समाश्वासयितुं च अनन्तपुरीं प्राप्तवानासीत् प्रधानमन्त्री। सर्वकारस्य अतिथिमन्दिरे मुख्यमन्त्रिणा पिणरायि विजयेन सह कृतायां चर्चायामासीत् प्रधानमन्त्रिणः अनुभावः प्रकाशितः। 
      अनन्तपुर्यां पून्तुरा प्रदेशस्थान् दुरन्तबाधितान् धीवरान् साक्षात् दृष्ट्वा तेषां सङ्कटान् अभियाचनाश्च सश्रद्धं श्रुतवान्। ओखीदुष्प्रभावन्तरम्  इदानीं ये न प्रत्यागताः ते क्रिस्मस् दिनाभ्यन्तरे प्रत्यागच्छन्तु इति प्रार्थये इति मोदिना उक्तम्।