Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ अन्येषां निधिः भारताय न आवश्यकी। भारतस्य प्रधानमन्त्री। पेट्रोल् डीसल् इत्यादीन्धनतैलानां मूल्यं प्रतिदिनं निश्शब्दं वर्धते।

Sunday, January 7, 2018

Bookmark and Share
गोखाद्यकुम्भकोणं - लालुप्रसादस्य सार्धत्रिसंवत्सराणां कारागारदण्डः। 
           राञ्ची > गोखाद्यकुम्भकोणविषये द्वितीये व्यवहारे आर् जे डि दलस्य अध्यक्षः तथा बीहारस्य भूतपूर्वमुख्यमन्त्री लालुप्रसादयादवः सार्धत्रिसंवत्सराणां कारागारवासाय दशलक्षं रूप्यकाणां आर्थिकशुल्काय च दण्डितः। राञ्चीस्थस्य सविशेषसिबिऐ न्यायालयस्यायं विधिः। लालुं विना इतरे १५ पुरुषाः अपि दण्डिताः। 
        पशुपरिपालनपरिचयः वर्तते इत्यतः अपराधिनां विवृतं कारागृहम् उचितमिति न्यायाधीशेन शिवपालसिंहेन निरीक्षितम्। लालुप्रसादः अधुना व्याजविधेयकानि उपयुज्य सर्वकारवित्तकोशात् ८९.२७लक्षं रूप्यकाणि अपहृतवान् इत्यस्मिन् व्यवहारे दण्डितः सन् राञ्च्यां 'बिर्सा मुण्डा' सेन्ट्रल् कारागृहे बन्धितः अस्ति।