OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 14, 2018

विद्यालयस्तरादारभ्य योगः अध्येतव्य इति केन्द्रविभावनम् – मन्त्री श्रीपादः। 
               कोच्ची > विद्यालयस्तरादारभ्य योगशास्त्रं पाठ्यविषयत्वेन स्वीकरणीयमिति केन्द्रसर्वकारस्य नयः इति केन्द्र आयुष्मन्त्रिणा श्रीपाद यशोनायिक् वर्येणोक्तम्। कोच्चीमध्ये 'पतञ्जलि योग ट्रयिनिंग् आन्ड् रिसर्च् सेन्टर्' संस्थायाः "नमामि योगम् २०१८" नामकं साधकसङ्गमं योगपैतृकपुरस्कारसमर्पणं च उद्घाटनं कुर्वन् भाषमाण आसीत् केन्द्रमन्त्री। 
               योगशास्त्रस्य अधिकप्रचाराय प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रयत्नः केन्द्रमन्त्रिणा संस्तुतः। सज्जीवनस्य मार्गः एव योगपरिशीलनेन सिद्ध्यति। मारकरोगान् प्रतिरोद्धुं च योगानुशीलनेन साध्यते इति तेनोक्तम्।