OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 24, 2018

संस्कृतपत्रकारितायां त्रैमासिक-एडवांसपाठ्यक्रमस्य शुभारम्भ: 
-पुरुषोत्तम शर्मा
      नवदिल्ली>श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविद्यापीठेन भारतीयजनसञ्चारसंस्थानेन च संयुक्तरूपेण जनवरी मासस्य षोडशे दिने संस्कृतपत्रकारितायां त्रैमासिक-एडवांस पाठ्यक्रमस्य शुभारम्भो विहित:। अस्मिन् कार्यक्रमे पत्रकारिता जगत: नेके गणमान्या: उपस्थिता: आसन्। विद्यापीठस्य कुलपति: प्रो. रमेशकुमारपाण्डेय: कार्यक्रमस्याध्यक्षं निरवहत्। 
    अत्रावसरे मुख्यातिथित्वेन केन्द्रीयपत्रसूचनाकार्यालयस्य अथ च रेलमंत्रालयस्य महानिदेशकेन अनिलकुमारसक्सेनावर्येण संस्कृतभाषाया: वैशिष्ट्यं प्रकटयता पत्रकारिताक्षेत्रे संस्कृतस्यावश्यता सबलम प्रतिपादिता, आङ्गलसङ्गणकाभ्यां सह संस्कृतस्य प्रयोगेण राजभाषाकार्यालयेषु श्रेष्ठतमशब्दावली निर्माणस्य संभावनादृशि युवान: सम्प्रेरिता:। येन संस्कृतयुववर्ग: युवभारतस्य निर्माणे विशेषयोगदानं प्रदद्यु:। 
  सम्मानिततिथिना भारतीयजनसञ्चारसंस्थानस्य महानिदेशके डॉ. के.जी. सुरेशेण स्कृतपत्रकारिताया: भाविस्वरूपो व्याख्यायित:। सारस्वततिथि: दिल्ली संस्कृताकादम्या: अध्यक्षा डॉ. कान्तारानी भाटिया विशिष्टातिथि: पार्थसारथी थपलियाल: डॉ.ऋतुराजपूत: विनोदमल्होत्रा च  पाठ्यक्रमस्य उद्घाटनकार्यक्रमे उपस्थिता: आसन् ।  समागततिथिभि: छात्रेभ्य:  प्रमाणपत्राणि प्रदत्तानि । सममेव पाठ्यक्रमसम्बन्द्धमहत्त्वपूर्णविवरणं च प्रदत्तम्। 
संस्कृतपत्रकारिताया: विद्यार्थिनां आधुनिकपत्रकारितया सह संयोजनदिशि महत्त्वपूर्णपदक्षेपस्य श्रेय: पाठ्यक्रमस्य संयोजिकायै प्रो.कमलाभारद्वाजवर्यायै गच्छति। संस्थानद्वयस्य मिथ: सेतुरूपेस्य पाठ्यक्रमस्य विशेषता वर्तते यत् छात्रा: द्विविधशिक्षकाणां निर्देशनं प्राप्स्यन्ति। अस्मिन् क्रमे विद्यापीठेन विगतवर्षे एकवर्षीय: ( पी.जी डिप्लोमा) पत्रकारिता पाठ्यक्रम: संचालित: आसीत् , यस्मिन् त्रिंशच्छात्रै: अध्ययनं प्राप्य कार्यं प्रारब्धम् ।