OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 8, 2018

भूचलनेन महासौधानि भूमेः अन्तर्गतानि। ५ जनाः मारिताः २४७ क्षताः
          हुवालिन्> तैवान् राष्ट्रे भूचलनेन महान्तः नाशनष्टः। पञ्चः जनाः मृताः सप्तचतवारिंशतधिक द्विशतं  क्षताः। बहवः अप्रत्यक्षाः च । रिक्टर् मापिन्यां भूचलनस्य शक्तिः  ६.४ इति अङ्किताI द्वादश अट्टयुतहर्म्यस्य अट्ट चतुष्टयः भूमेः अन्तः मग्नाः। विंशतिजनाः अट्टात्  रक्षिताः। रक्षाप्रवर्तनानि प्रचलन्ति। नवशतं जनान् सुरक्षितस्थानं प्राविशत् । विद्युत्बन्धः विनष्टः। उपशतम् अनुबन्धचलनानि अजायत इत्यनेन अपघातस्य व्याप्तिः विस्तृता अभवत् । 
         १९९९ तमे आसीत् भूतपूर्व भूचलनम्। तस्मिन् समये भूकम्पस्य तीव्रता ७.६ इत्यासीत् । तदा चतुश्शतोत्तर-द्विसहस्रं जनाः मारिताः ।