OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 30, 2018

क्रीडावार्ता-
पादकन्दुकक्रीडायां बार्सिलोना विजिता
     स्पेन्>  स्पानिष् लीग् पादकन्दुक क्रीडायोगे बार्सिलोना विजिता अभवत्। ह्यस्तननिशायां स्पर्धायाम् प्रतिद्वन्दिं डी पोर्टिवो सङ्घं विरुद्ध्य ४-२ गोल् कृत्वा बार्सिलोना २५ वारम् विजिता अभवत्। लयणल् मेसि अस्मिन् स्पर्धायां हाट्रिक् लब्धवान्।
डा विनोवन्  अब्दुल्करीम्
भारतनिरीक्षणाय बाह्याकाशयोजनया पाकिस्थानः।
        इस्लामाबादः> भारतस्योपरि निरीक्षणाय पाकिस्थानेन नूतनी बाह्याकाशपरियोजना समारभ्यते। आगामिनि संवत्सरे ४७० कोटिरुप्यकाणि आर्थसङ्कल्पे स्वीकृतानि । स्पेस् आन्ट् अप्पर् अट्मोस्फियर् रिसर्च् ओर्गनैसेषन्  नाम संस्थया एव अनुसन्धानं क्रियते। अनया योजनया सैनिक-सैनिकेतर आवश्यकानां कृते विदेशोपग्रहाणाम् उपयोगं न्यूनीकरणीयमिति तेषां लक्ष्यम्।
        भारतस्य उपग्रहयोजनां विस्तरेण निरीक्षितुं विशेषयोजनापि निश्चिता इति वार्तापत्रिकाः आवेदयन्ति। पाक् साट् एम् एम् १ इति विविधोद्देश्य उपग्रहमपि विन्यस्तुं लक्ष्यीष्यीक्रियते पाकिस्थानेन।

Sunday, April 29, 2018

सीमाशान्तिम् आतङ्कवादसम्मार्जनं च  व्यवस्थाप्य मोदी - षी मेलनं समाप्तम्। 
  वुहान् > भारत - चीनासीमायां वर्तमानां संघर्षावस्थां परिहृत्य राष्ट्रशान्तिं पुनःस्थापयितुं, तथा आतङ्कवादसम्मार्जनाय ऐक्येन प्रवर्तितुं च आह्वयत् भारत - चीना राष्ट्रनेतृद्वयस्य दिनद्वयात्मकं मेलनं समाप्तम्। 
    "हृदयात् हृदयं प्रति" इत्यासीत् भारतप्रधानमन्त्री नरेन्द्रमोदी, चीनाराष्ट्रपतिः षि जिन् पिङ् इत्येताभ्यां मध्यचीनायां 'वुहान्' प्रदेशे कृताय  अनौपचारिकाय उच्चसम्मेनाय लब्धं विशेषणम्। दिनद्वयात्मकस्य उच्चमेलनानन्तरं  मोदीवर्यः शनिवासरे सायं दिल्लीं  प्रतिसम्प्राप्तः। 
     गतवर्षे 'डोक्लाम'सीमायाम् उभयस्य राष्ट्रस्य सैनिकाः युयुत्सवः सन्तः ७३ दिनानि यावत्  अभिमुखं वर्तिता  अवस्था परं न भविष्यतीति भारतविदेशकार्यसचिवेन चीनायाः उपविदेशकार्यमन्त्रिणा च कृते विभिन्ने वार्ताहरसम्मेलने स्पष्टीकृतम्।
सुसमाजस्य निर्माणाय संस्कृतपाठनमनिवार्यम् - पण्डित रत्नं डा पि के माधवः ।
       मावेलिक्करा > भरते विद्यमान सामाजिकसमस्यानां परिहाराय संस्कृतविद्याभ्यास: अव३यं दात०यमिति विश्व संस्कृत प्रतिष्ठानस्य केरलराज्य अध्यक्ष : पण्डितरत्नं डा पि के माधव महोदय : | विश्व संस्कृतप्रतिष्ठानस्य राज्य वार्षिकसम्मेळने भाषमाणः आसीन् अयम । संस्कृत पठनेन  मनसः संस्कार भविष्यति। तेन समाजः अपि सुसंस्कृत: भविष्यति၊ एतत् कार्य संस्कृतशिक्षकाणां दायित्वम्  तेन उक्तम्॥
मलयाल-विश्वविद्यालये संस्कृत विभागः आरम्भणीयः - विश्वसंस्कृतप्रतिष्ठानम्॥ 
          मावेलीक्करा - केरलराज्ये विद्यमाने मलयाल विश्वविद्यालये संस्कृत विभागः समारम्भणीयः इति विश्वसंस्कृत प्रतिष्ठानस्य अष्टात्रिशे राज्यवार्षिकसम्मेलने प्रस्तावः। मलयालभाषायाः समीचीनाध्ययनाय व्युत्पत्यर्थं च संस्कृतपठनम् अनिवार्यमिति सुविदितमेव၊ तथापि एतावत्पर्यन्तं विश्वविद्यालये संस्कृतविभागस्यारम्भः वा अध्यापकानां नियुक्तितिः वा नाभवत्। समस्या इयम् अवश्यं परिहरणीया इति प्रस्तावेन सर्वकारः सूचीत: विश्वसंस्कृतप्रतिष्ठानेन। सम्मेलनेऽस्मिन् आकेरलात् २०० प्रतिनिधयः भागभाजः अभवन् ।।
विज्ञापनम् -  दिनाङ्कः  5 - 04 - 2018
राष्ट्रियसंस्कृतसंस्थानम् (मानित विश्वविद्यालयः)
भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयाधीनः 
56 - 57, इन्स्टिट्यूशनल् एरिया
जनकपुरी, नवदेहली - 110058
(राष्ट्रिय मूल्याङ्कनप्रत्यायनपरिषदा 'ए' श्रेण्या प्रत्यायितः)
दूरभाषाः -011-285207979, 28520966, 28524993, 28524995
संस्कृतशिक्षायाः विकासयोजनायाः अन्तर्गते 2018- 19 वित्तीय सहायतार्थम् अतिसूचना।
       भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयस्य तत्वावधाने नवदेहलीस्थेन राष्ट्रियसंस्कृतसंस्थानेन 2007 तम वर्षीयायाः संस्कृतशिक्षायाः विकासस्य पुनरीक्षितयोजनायाः अन्तर्गततया  अधोनिर्दिष्टाभ्यः योजनाभ्यः 2018 - 2019 तम वर्षस्य वित्तीय सहायतानुदानं निमित्तीकृत्य निर्धारितप्रपत्रानुगुणम् आवेदनपत्राणि आमन्त्र्यन्ते-
1. संस्कृतशिक्षणाय वित्तीयसहायता -
      (क) पारम्परिक संस्कृतपाठशालासु / महाविद्यालयेषु संस्कृताध्यापकेभ्यः वित्तीयसहायतानुदानम् ।
      (ख) पारम्परिक संस्कृतपाठशालासु / महाविद्यालयेषु आधुनिकविषयाध्यापकेभ्यः वित्तीयसहायतानुदानम्।
       (ग) राज्यसर्वकारसंबद्धेषु माध्यमिकविद्यालयेषु / उच्चतरमाध्यमिकविद्यालयेषु  संस्कृताध्यापकेभ्यः वित्तीयसहायतानुदानम् ।
2. देशे अभावग्रस्तपरिस्थितिषु उषितेभ्यः संस्कृतपण्डितेभ्यः सम्मानराश्यनुदानम्।
3. सर्वकारेतरसङ्घटनेभ्यः / मानितसंस्कृतविश्वविद्यालयेभ्यः / विभिन्न शोध परियोजनाभिः कार्यक्रमैः  सह युक्तेभ्यः विश्वविद्यालयेभ्यः संस्कृतसंवर्धनगतिविधीनां कृते वित्तीयसहायतानुदानम्।
4. संस्कृतस्य दुर्लभपुस्तकानां पुनर्मुद्रणाय, प्रकाशनाय तथा संस्कृतपुस्तकानां नैकप्रतिकृतिक्रयणय च वित्तीयसहायतानुदानम् ।
5. सेवानिवृत्तानां / ख्यात्यार्जितसंस्कृतविदुषां (शास्त्र चूडामणीनां) सेवानाम् उपयोगार्थं वित्तीयसहायतानुदानम्। 
6. पारम्परिकसंस्कृतपाठशालासु / संस्थासु विद्यमानानां छात्राणां व्यावसायिकप्रशिक्षणकार्यक्रमाणाम् आयोजनार्थम् पञ्जीकृतशैक्षिकसङ्घटनादिभ्यः वित्तीयसहायतानुदानम् ।
7. संस्कृतशिक्षणस्य  मानकानां परिपोषणाय विश्वविद्यालयेभ्यः / मानितविश्वविद्यालयेभ्यः सी. बी. एस्. ई / एन्. सी. ई. आर्. टी / एस्. ई. ई. आर्. टी प्रभृतिभ्यः वित्तीयसहायतानुदानम्।
     * उपर्युक्तानां योजनानाम् अन्तर्गततया वित्तीयसहायतार्थम् आवेदयितुम् अन्तिम दिनाङ्कः 30. 06. 2018
----------------------------------------------------------
8. संस्कृतस्य विकासाय दशवर्षीयभावियोजनायाः परिकल्पना तथा क्रियाविधिपत्रकान्तर्गततया (Vision & Road Map) अष्टादशी - परियोजनानां निमित्तम् आवेदनपत्राणि आमन्त्र्यन्ते।
अष्टादशी परियोजनानां निमित्तम् आवेदनपत्रस्य स्वीकृतेः अन्तिम दिनाङ्कः 30. 04. 2018 
----------------------------------------------------------
सूचना- प्रत्येकं योजनायाः कृते आवेदितानि असम्पूर्णानि आवेदनपत्राणि तथा निर्धारित तिथेः पश्चात्  प्राप्रानि आवेदनपत्राणि नैव स्वी क्रियन्ते । उपर्युक्तानां सर्वासां योजनानां (क्रमशः 1 तः 8) आवेदनपत्राणि, नियमाः सूचनाः इत्यादीनां सम्पूर्णविवरणं संस्थानस्य  वेब् सङ्केतात् ( www.sanskrit.nic.in ) प्राप्तुं शक्नुवन्ति।
कुलसचिवः (प्र)

Saturday, April 28, 2018

समारब्धः विश्वसंस्कृत-प्रतिष्ठानस्य सांवत्‍सरीय-समारोहः ॥
किरणकुमारः आर् 
     अम्पलप्पुष़ा> विश्वसंस्कृतप्रतिष्ठानस्य अष्टात्रिंशत् राज्यस्तरीय सांंवत्सरीय-समारोहः अम्बलप्पुषा विद्याधिराजकेन्द्रीय विद्यालये समाारब्धः। राष्ट्रियसंस्कृतसंस्थानस्य कुलसचिवेन डा सुब्रह्मण्यशर्मवर्येण सम्मेलनं समुद्घाटितम्॥ प्रोफः कृष्णकुमारवर्यः पण्डितरत्न्  पुरस्कारेण तथा श्री केरलवर्मा महोदयः सहृदयतिलकम् इति पुरस्कारेण च समादृतौ। संस्कृतभारत्याः अखिलभारतसम्पर्कप्रमुखः श्री प नन्दकुमारवर्यायः मुख्यभाषणमकरोत्।   दिनद्वयात्मक मेलने २०० प्रतिनिधयः भागभाजिनः आसीत् ।
अपत्यानि वाहनं चालयति चेत् पितरौ दण्डितौ भविष्यतः।
         हैदराबाद्> गतागतनियमान् उल्लङ्घ्य बालाः वाहनं चालयन्ति इति अपघातदुर्घटनायाः सङ्ख्या वर्धयति। अतः गतागतनियमः कर्कशतया पालयितुं निश्चित्य नूतननियमः  प्रबलं जातम्। नियमलङ्घकानां पुरतः कर्कशप्रक्रमेण हैदराबादस्य गतागतविभागस्य आरक्षकाः घटीबद्धाः अभवन्। नियमस्य प्रबलतया गतमासद्वयाभ्यन्तरेण षट्विंशति (२६) रक्षाकर्तारः आरक्षकैः ग्रहीताः।
दिनद्वयात् पूर्वं यन्त्र विज्ञानार्थिनोः द्वयोः छात्रयोः अनवधानयान-चालनेन एकस्य अपघातमृत्युः अभवत्। मार्गदुर्घटनां न्यूनीकर्तुम्  उद्दिश्य बालकान् तथा तेषां पितॄन् च उपदेष्टुम् अयं सन्दर्भः उपयुज्यते इति आयोगाध्यक्षः कृष्णकुमारः अवदत्।
कोरियन् अग्रे परं शान्तिदिनानि; राष्ट्रपतिद्वयस्य मेलनं सफलम्। 
          सोल् > आविश्वम् आकांक्षया प्रतीक्ष्यमाणस्य कोरियन् उच्चकोटिसम्मेलनस्य आश्वासप्रदायकः समाप्तिः। दक्षिणोत्तरकोरियाराष्ट्रयोः भूशिरसि सम्पूर्णम् अण्वायुधनिराकरणं सम्पत्स्यति, भूमण्डले सर्वत्र स्थिरां शान्तिं पुनःस्थापयिष्यतीति  प्रख्यापनेन राष्ट्रयुगलस्य राष्ट्रपत्योः उन्नततलमेलनं परिसमाप्तम्। 
      "दौर्भाग्यकराणि गतदिनानि" न पुनरावर्तयितुम् एकमनसा प्रवर्तयिष्यतीति उत्तरकोरियाशासकः 'किं जोङ् उन्' नामकः तथा दक्षिणकोरियाशासकः 'मुन् जे इन्' नामकश्च संयुक्तप्रस्तावेन उक्तवन्तौ। कोरियन् संग्रामं शासकीयतले परिसमापयिष्यतीति ताभ्यां निगदितम्। शुक्रवासरे प्रादेशिकसमयानुसारं नववादने एव कोरियाराष्ट्रयोः सीमनि सैनिकरहितमण्डले 'पान् मुन् जोम्' प्रदेशे  वर्तमाने "शान्तिभवने" आविश्वं प्रतीक्ष्यमाणं मेलनं सम्पन्नम्।
पाक् होक्की कीडकाय भारतहृदयः
     मुम्बै > एकदा असामान्यक्रीडनैः भारतहृदयेषु वेदनां दत्ताय पाकिस्थानस्य भूतपूर्वक्रीडकाय मन्सूर् अहम्मदाय अधुना भारतेन हृदयदानं करणीयम्। हृदयरोगपीडितः सः भारते विदग्धचिकित्सायै वैद्यविसां लब्धुं भारतसर्वकारं प्रति आवेदनं समर्पयत्। तस्मै निशुल्कचिकित्सां दातुं 'होर्टिस्' नामकः आतुरालयसङ्घः सन्नद्धतां प्राकट्यत्। उचितं हृदयं स्वीकर्तुं सङ्घेन मुम्बई,चेन्नै मध्ये च पञ्जीकरणम्‌ अकरोत् इति सङ्घस्य कार्यकर्तृभिः सूचितम्। अधुना मन्सूर् अहम्मदः पाकिस्थाने कराच्च्यां जिन्ना आतुरालये चिकित्सां स्वीकुर्वन् वर्तते। तत्रत्याः वैद्याः एव भारते विदग्धचिकित्सां निरदिशन्। विसा अनुज्ञाविषये भारतसर्वकारस्य निर्णयः प्रधानः वर्तते।
नायकत्वं परिवर्तितम्-विजयः समागतः
 रजीष् नम्पीश ः 
     नवदल्ही > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडायां डेल्ही दलं ५५ धावनाङ्कैः कोल्कत्ता दलं पराजयत्।ह्यः डेल्ही दलं नूतननायकस्य श्रेयस् अय्यरस्य नेतृत्त्वे एव अक्रीडयत्। श्रेयस्‌ अय्यर् ४० कन्दुकेभ्यः ९० धावनाङ्कान् सम्पाद्य डेल्ही दलस्य विजयशिल्पी अभवत्।विजयोऽयं डेल्ही दलस्य आत्माविश्वासम् अवर्धयत्। अङ्कस्थितिः - डेल्ही डेर्डेविल्स् २१९/४ कोल्कत्ता नैट् रैडेर्स् १६४/९.

Friday, April 27, 2018

मेई २८ दिनाङ्के उपनिर्वाचनानि विहितानि।
       नवदेल्ही > राष्ट्रस्य विविधेषु विधानसभा - लौकसभामण्डलेषु म‌ईमासस्य २८ दिनाङ्के उपनिर्वाचनानि भविष्यन्ति। *केरलराज्ये* चेङ्ङन्नूर् मण्डलेन सह बीहारस्य लौकिहत्, झार्खण्डस्य गौमिया, सिल्ली  महाराष्ट्रराज्यस्य पलूस्, कडेगाव् तथा अम्पति (मेघालयः), षाक्कौट् (पञ्चाबः), तरली (उत्तराखंड), नूर्पुरं (उत्तरप्रदेशः), महेश तलं (वंगराज्यं) इत्येतेषु १० विधानसभामण्डलेषु  भण्डारगोण्डिया, पल्गारं  [महाराष्ट्रम्] ,नागालान्ड् [नागालान्ड्], कैरैना [उत्तरप्रदेशः] इत्येतेषु चतुर्षु लोकसभामण्डलेषु च निर्वाचनानि भविष्यनंति।  नामनिर्देशिकीपत्रसमर्पणस्य अन्तिमं दिनं मई १० भवति। मतगणना मई ३१दिनाङ्के च भविष्यति।
कन्दुकप्रेषकाः पुनरपि रक्षकाः
-रजीष् नम्पीशः
      हैदराबाद्‌ > विवो ऐ पि एल् २०१८ सपर्यायां हैदराबाद् दलेन पञ्चाबदलं १३ धावनाङ्कैः पराजितम्।ह्यः सम्पन्नक्रीडायां हैदराबाद् दलं १३२ इति सामान्यं न्यूनाः अङ्काः एव सम्पादिताः।किन्तु कन्दुकप्रेषकाणां सामर्थ्यं  हैदराबाद्‌ दलस्य कृते सहायकम् अभवत्।अनेन विजयेन अ‌ङ्कपट्टिकायां हैदराबाद्‌ दलं द्वितीयस्थानं सम्पादयत्।अङ्कः - स‌ण् रैसेर्स् हैदराबाद्‌ १३२/६ किङ्स् इलवन् पञ्चाब् ११९/१०
अत्यधिकसुरक्षया सह तृतीयपरम्परायाः  मतदानयन्त्रम् आगतम्।
          नवदिल्ली> तृतीय परम्परायाः विद्युतमतदानयन्त्राणि निर्वाचनायोगेन बहिरानीतानि। मार्क् ३ इ वि एम् इति नामाङ्कितः नूतनयन्त्रः शतमानतया संपूर्णरूपेण (१००%) सुरक्षि भवति। येनकेनापि प्रकारेण नाशं न याति, व्याजं कर्तुं न शक्यते,  एते भवतः यन्त्रस्य विशेषता इति निर्वाचनायोगः वदति। 
‍         इलट्रोणिक्स् कोरपरेषन् ओफ् इन्ट्या लिमिट्टड्  (इ सि ऐ एल्) भारत् इलट्रोणिक्स्  लिमिट्टड् च मिलित्वा नूतनयन्त्रस्य निर्माणं अकुरुताम् । येनकेनापि मार्गण त्रुटयः भविष्यन्ति चेत् सा त्रुटिः स्वयमेव प्रत्यभिज्ञात्वा परिहर्तुं सज्जः भवति नूतनः यन्त्रः।  कृत्रिमप्रवर्तनानि निवारयितुं यन्त्रः स्वयमेव सज्जः भवति इति मिर्वाचनायोगाध्यक्षेण उक्तं च।

Thursday, April 26, 2018

सर्वोच्चन्यायालयस्य सम्पूर्णोणोपवेशयनाय प्रार्थयन्ते न्यायाधीशाः
          नवदिल्ली> सर्वोच्चन्यायपीठस्य समस्याः परिहर्तुं सम्पूर्णन्यायालयः आमन्त्रितव्यः इति आवश्येन साकं न्यायाधीशाः । न्यायाधीशाः रञ्जन गोगो तथा मदन बि लोक्कूरश्च एतदुन्नीय मुख्यन्यायाधीशाय दीपकमिश्राय पत्रम् प्रैषयताम्। मुख्यन्यायाधीशं विस्तरेदिति आवश्यमुन्नीय गतदिने विपक्षदलेन निवेदनं दत्तमासीत्।  किन्तु राज्यसभाध्यक्षः वेङ्कय्य नायिडुः तन्निदनपत्रं तिरस्कृतवान्। एतदनुवर्त्य एव सम्पूर्णन्यायालयस्य उपवेशनं
आवश्यकमिति  उन्नीय न्यायाधीशाः पुरतः आगताः। सर्वोच्चन्यायपीठस्य सुरक्षायै भाविने च एतदत्यावश्यकमिति संसूच्यैव न्यायाधीशैः  आवश्यमेतत् पुरस्कृतम्।
          नैके न्यायाधीशाः समानं आवश्यं संसूच्य आगतवन्तश्च। समयेस्मिन् न्या. श्री मिश्रः पत्रस्य प्रतिकरणमेव नादात्। सोमवासरे प्रातः प्रवृत्ते न्यायाधीशानां मेलने तदनन्तरे प्रवृत्ते चायापान वेलायां च सम्पूर्णन्यायालयस्य आह्वयनसम्बद्धान् विषयान् न्यायाधीशाः असूचयन् चेदपि मिश्रया प्रतिकरणं किमपि न कृतम्।  नीतिन्यायव्यवस्थायां सुप्रधानसमस्याः यदा आगच्छन्ति तदा एव  मुख्यन्यायाधीशः सम्पूर्णन्यायालयम् आमन्त्रयति। तदा सर्वोच्चन्यायपीठस्य समस्ताः न्यायाधीशाः  उपवशने  भागं गृह्णीयुरिति नियमः।
विजयः-चेन्नै दलं प्रथमस्थाने
-रजीष्‌ नम्पीशः 
       बङ्गलुरु > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः संवृत्तस्पर्धायां चेन्नैदलेन बाङ्गलुरु दलं पञ्चभिः क्रीडकैः पराजितम्।उद्वेगभरितायां स्पर्धायां भारतस्य भूतूपूर्वनायकस्य एम् एस् धोनिनस्य अद्‌भुतप्रकटनमेव चेन्नै दलस्य कृते उपकारकम् अभवत्।बृहदङ्कान् अनुवर्तमाने सन्दर्भे पराजयमभिमुखीकृतवेलायां धोनिनः मनःसान्निध्यमेव चेन्नै दलस्य विजयकारणम्‌ अभवत्। धोनी ३४ कन्दुकेभ्यः ७० धावनाङ्कैः अपराजितः आसीत्। चेन्नै कृते अम्बाट्टि रायिडु ८२ धावनाङ्कान् प्राप्तवान्।अनेन विजयेन चेन्नै दलम् अङ्‌कपट्टिकायां प्रथमस्थानं प्रापयत्।अङ्काः- बाङ्गलुरु रोयल् चालञ्जेर्स् २०५/८ चेन्नै सूपर् किङ्स् २०८/५  ॥

Wednesday, April 25, 2018

'एफ् आर् एस् सोफ्ट् वेर्' - दिनचतुष्टयेन दिल्ली आरक्षकैः ३००० शिशवः  प्रत्यभिज्ञाताः।
      नवदिल्ली> अप्रत्यक्षाः त्रिसहस्रं शिशवः दिनचतुष्टयाभ्यन्तरे प्रत्यभिज्ञाताः। दिल्लीस्थ आरक्षकविभागस्य नूतनसङ्गणककार्यक्रमेण ( एफ्आर् एस् सोफ्ट्वेर्) विविधबालभवनेषु विद्यमानेषु  पञ्च चत्वारिंशत् (४५०००) बालकेषु त्रिंशदधिकनवशतोत्तरद्विसस्रं (२९३०) बालकबालिकान् प्रत्यभिजानीय तान् स्वस्व गृहं प्रति प्रषितवान्। उच्चन्यायालये प्रदत्ते सत्यवाङ्मूलपत्रे एव स्त्री- शिशु मन्त्रालयेन एवं लिखितम्। मुख-प्रत्यभिज्ञानव्यवस्था उपयुज्य एव दिन-चतुष्टयाभ्यन्तरेण शिशवः संग्रहीताः। सङ्गणक -व्यवस्थायाः परीक्षणार्थम् आसीत् आरक्षकाणाम् अयं प्रक्रमः। अप्रत्यक्षाणां चित्राणि तथा अन्यानि विवरणानि च उपयुज्य  बालभवनेषु संरक्षितानां बालकबालिकयोः मुखरुपस्य उपमानत्वेन प्रत्यभिज्ञाताः। सर्वोच्चन्यायालयस्य आदेशानुसत्य आसीत् अयं प्रक्रमः।
फिजि देशे भूचलनम् - रिक्टर् मापिकायां ५.५  अङ्कितम्
सुव> फिजि देशस्य राजधानी अतिशक्तेन भूचलनेन प्रकम्पितःI रिक्टर् मापिकायां ५.५ इति अङ्कितेन चलनेन जीवापायाः वस्तुनाशाः वा न आवेदितः। सुनामि (अत्यधिक जलोपप्लवः) पूर्व सूचना अपि न प्रदत्ता। 
केरलेषु 'जन् औषधि' योजना दुर्घटावस्थायाम्
     कोच्चि > केन्द्रसर्वकारेण आयोजितायां 'जन् औषधि' पद्धत्याम् अन्तर्भूतानाम् औषधविपणनकेन्द्राणां केरलेषु प्रवर्तनं मन्दगतौ वर्तते। औषधानां लभ्यतायाम् अनुभूयमाना न्यूनता एव मुख्यं कारणम्। वितरणाय आवश्यकानि विविधानि औषधानि न लभ्यन्ते इति विपणनशालाप्रवर्तकाः सूचयन्ति। अधुना ३४० जन् औषधि विपणनशालाः केरलेषु विविधमण्डलेषु प्रवर्तन्ते। एताभ्यः विपणनशालाभ्यः प्रतिमासं पञ्चकोटिरूप्यकाणाम् औषधानि आवश्यकानि सन्ति।सामान्यानां निर्धनरोगिणां कृते महदुपकारिकाः भवन्ति एताः जन् औषधिशालाः। अन्यान् औषधनिर्माणविभागान् अपेक्षया जन् औषधिद्वारा लभ्यमानानाम् औषधानां मूल्यं बहु न्यूनं भवति। औषधानां विपणनाधारेण एव आनुकूल्यं लभ्यते इत्यतः औषधलभ्यता मुख्या इति आपणिकाः अभिप्रयन्ति।

Monday, April 23, 2018

संस्कृतं न केवलं ज्ञानस्य भाषा अपितु विज्ञानस्यापि- भारतराष्ट्रपतिः ।
-पुरुषोत्तम शर्मा -

      नवदिल्ली> श्री लालबहादुरशास्त्री राष्ट्रियसंस्कृतविद्यापीठस्य सप्तदशदीक्षांतसमारोह: अप्रैलमासस्य एकविंशति: दिनांके समायोजित:। दीक्षान्तसमारोहे भारतस्य राष्ट्रपति: श्रीरामनाथकोविन्द: मुख्यातिथित्वेन स्वामी विवेकानन्दयोग-अनुसन्धानसंस्थानस्य कुलाधिपति: डॉ. एच. आर. नागेन्द्र: विशिष्टातिथित्वेन अथ च नीति आयोगस्य सदस्य: डॉ. बिबेकदेबराय: सारस्वतातिथित्वेन उपस्थिता: अभवन् | राष्ट्रपतिना श्रीकोविन्देन दीक्षांतभाषणे प्रोक्तं यत्  संस्कृते भारतस्य आत्मा दृश्यते। एतद् हि विश्वकल्याणाय प्रासंगिकं विद्यते। संस्कृतं न केवलं ज्ञानस्य अपितु विज्ञानभाषा भवति।  छात्रान् प्रेरयता तेनोक्तं यत् ते श्रीलालबहादुरशास्त्रिण: आदर्शान् जीवने आचरन्तु।
डा गङ्गाधरन् नायर महोदयाय महामहोपाध्याय पुरस्काकारं प्रयच्छति।
          आचार्यगंगाधरन् नायर् वर्यः  भारतीयव्याकरण-भाषाविज्ञान- भारतीयदर्शनविचार-पद्धतौ उल्लेखनीययोगदानाय महामहोपाध्यायोपाधिना विभूषित:। कुलपतिना प्रो. रमेशकुमारपाण्डेयेन विद्यापीठस्योपलब्धय: विस्तारपूर्वकं वर्णिता:। समारोहस्य अध्यक्षता कुलाधिपतिना डॉ. हरि-गौतमेन विहिता। दीक्षान्तसमारोहे 2016-17 वर्षे स्वर्णपदकप्राप्तकर्तार: 26 छात्रा: सम्मानिता:। अन्येभ्यश्च छात्रेभ्य: विद्यावारिधि: विशिष्टाचार्य-आचार्य-शिक्षाचार्य-शिक्षाशास्त्री-शास्त्री-वास्तु-पी.जी डिप्लोमा-ज्योतिषप्राज्ञ-ज्योतिषभूषणोपाधय: प्रदत्ता:।
समुद्रः प्रक्षुब्धः-तीरदेशवासिभ्यः जाग्रतानिर्देशः दत्तः।
    तिरुवनन्तपुरम् > केरलेषु समुद्रः प्रक्षुब्धावस्थायां वर्तते  इत्यतः सर्वकारेण तीरदेशप्रदेशेषु जाग्रतानिर्देशः दत्तः। समुद्रप्रक्षोभेण मत्स्यबन्धनकर्मकराः अतिदुरितमनुभवन्ति। तिरुवनन्तपुरे विष़िञ्ञं, वेली, कोच्चुवेली, अटिमलत्तुरा, वल्लक्कटव् इत्यादिषु प्रदेशेषु समुद्रः प्रक्षुब्धः भवति। एतेभ्यः प्रदेशेभ्यः जनाः दुरिताश्वासकेन्द्रं प्रति परिवर्तिताः। समीपस्थाः विद्यालया: एव दुरिताश्वासकेन्द्ररूपेण निश्चिताः वर्तन्ते।एतावता विंशत्यधिकानां परिवाराणां दुरिताश्वासकेन्द्रं प्रति परिवर्तनम् अभवत्।षष्ट्यधिकानि गृहाणि समुद्रक्षोभेण जलपूर्णानि अभवन्।कर्मकराः मत्स्यबन्धनाय समुद्रं प्रति न गन्तव्याः इति सर्वकारनिर्देशः वर्तते।
 उद्घाटनाय समागतः न्यायाधीशः संस्कृतानुरागेण कार्यशालायाः भागं स्वीकृतवान् ।
      कालटी > कालट्यां आयोजिते सरलमानकसंस्कृतकार्यशालायां सत्रचालकस्य भाषणे तथा  सत्रस्य सारल्ये आकृष्टः न्यायाधीशः वि एन्‌ सत्यानन्दः कार्यशालायाः सम्पूर्णतापर्यन्तं सत्रे पूर्णतया भागभाक् अभवत्।  एतादृशकार्यक्रमाः  अवश्यकाः  इति सत्रे भागं कृत्वा न्यायाधीशेन उक्तम्। प्रातः दशवादने आरब्धायां कार्यशालायां सायं सार्धचतुर्वादनपर्यन्तं सत्राङ्गत्वेन भागं स्वीकृतवानयम् ।
      सरलं संस्कृतं नित्यव्यवहारेण बालकानामपि क्रीडनकवत् कर्तुं शक्यत इति तृप्पूणित्तुरा सर्वकारीयसंस्कृतकलालयस्य ज्योतिषविभागाध्यक्षस्य ई एन् ईश्वरस्य  उक्तितिं श्रुत्वा सत्रे पूर्णतया भागं कर्तुं निश्चितवानासीत् न्यायाधीशः।  ओ एन् जी सि संस्थायाः CSR परियोजनायां संस्कृतसंवर्धनप्रतिष्ठानेन भारतस्य विभिन्नराज्येषु 'सरलमानकसंस्कृतम्' इति नाम्ना  कार्यक्रमाः  आयोजिताः वर्तन्ते। मार्च् मासे आरब्धाः एकदिवसीयाः कार्यशलाः एप्रिल् मासस्य  नवविंशति दिनाङ्के समाप्यते। 

Sunday, April 22, 2018

संस्कृतं जनसामान्यस्य भूषणं भवेत् - न्यायाधीशः वि एन् सत्यानन्दः। 
    कालटी > सरलां संस्कृतभाषां साधारणजनेषु भूषणरूपेण विराजयितुं यत्नः कार्यः इति निवृत्तः न्यायाधीशः वि एन् सत्यानन्दः अवदत्।  'सम्प्रतिवार्ता'याः नेतृत्वे संस्कृतसंवर्धकप्रतिष्ठानस्य सहयोगेन कालटीपुरे आयोज्यमानायाः एकदिवसीयकार्यशालायाः उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। संस्कृतं समाजव्यवहाराय कठिनं क्लिष्टं चेति विभावनां दूरीकर्तुम् अध्यापकैरेव सुकरं साधयेत्  तदिति तेनोक्तम्। सम्प्रतिवार्तापत्रिकायाः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः अध्यक्षतामवहत्। कालटी श्रृङ्गेरीमठस्य शोधच्छात्रः श्रीनिवासकारन्तः आशंसां समार्पयत्।सम्प्रतिवार्तायाः निदेशकसमित्यङ्गीभूतौ ऐवर्काल रविकुमारः स्वागतं, पि रती कृतज्ञतां च व्याहृतवन्तौ। 
      विद्यालय-कलालयाध्यापकाः, शोधछात्राः, संस्कृत-पत्रप्रवर्तकाः संस्कृत-लेखकाः इतरे संस्कृतानुरागिणश्च चतुस्सत्रात्मिकायां कार्यशालायां भागमकुर्वन्। पञ्चाशत् जनानां कृते सप्ताहात् पूर्वं आन्तर्जालद्वारा पञ्चीकरणं स्वीकृत्य आयोजिता आसीत् इदं सत्रम्। तथापि बह्व्यः संस्कृतप्रेमिणः पञ्चीकरणं विनापि कार्यशालायां समागताः।
पुरस्कारशोभया गिन्नस् पक्रुः
-रजीष् नम्पीशः

     कोच्ची > कैरली सिनेमाप्रवर्तकाय गिन्नस् पक्रुः इति नाम्ना प्रसिद्धाय अजयकुमाराय विश्वस्य अतिवामनः सिनेमानिदेशकः इति ख्यात्या त्रयः पुरस्काराः लब्धाः। २०१३ तमे वर्षे प्रकाशितस्य  'कुट्टीं कोलुम्' इति नामकस्य चलनचित्रस्य निदेशकत्वनिर्वहणेनैव अजयकुमारः पुरस्काराय अर्हतां प्रापयत्।लिंका बुक् आफ्‌ रेकोर्ड्,यूणिवेर्सल् रेकोर्ड् फारं,बेस्ट् आफ् इण्ड्या रेकोर्ड् इत्यादयः त्रयः पुरस्काराः एव तेन प्राप्ताः।शनिवासरे एरणाकुलं प्रस् क्लब् मध्ये संवृत्ते समारोहे पुरस्कारदानम् अभवत्।एते पुरस्काराः आत्मविश्वासेन कलामण्डले अग्रे गन्तुं प्रचोदनं ददतीति पुरस्कारान् स्वीकृत्य अजयकुमारेण अभिप्रेतम्।

Saturday, April 21, 2018

  संस्कृत-पत्रकारितायै अय्यम्पुष़ हरिकुमाराय अम्बेद्कर् हयर् एक्सलन्स्  पुरस्कारः।

    अनन्तपुरी > विशेष प्रवर्तनाय डा बि आर् अंबेदकरस्य नाम्नि  दीयमानपुरस्कारेषु पत्रकारिताविभागस्य पुरस्कारेण  'सम्प्रतिवार्ता'याः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः समादृतः। अम्बेद्कर् जयन्ती समारोहसमित्या एव प्रतिसंवत्सरं दीयमानः पुरस्कारः  एवैषः।

      पत्रकारिताप्रवर्तनेषु विशिष्टम् अनुकरणीयं च भवति  सम्प्रतिवार्तायाः प्रवर्तनम् इति समित्यध्यक्षः आर् रामन्कुट्टिमहोदयः उक्वान् । आधुनिकपारिभाषिकसंकेतान् संस्कृतभाषां सन्निवेश्य छात्रेषु प्रचोदनम् उत्पादयन् विश्वे अपि इदंप्रथमतया छात्राः वार्तावतारकरूपेण अनुवर्तमानः 'सम्प्रतिवार्ता' इति ओण्लैन् दिनपत्रिकायाः दृश्यवार्तावाहिनी प्रसरणसंकेतः इत्यादीनि विविधानि योगदानानि परिगण्य  आसीत् पुरस्कारनिर्णयः। 

      अनन्तपुर्यां कनकक्कुन्न् प्रासादे आयोजिते अम्बेक्कर् जयन्ती समारोहे केरलराज्यस्य भूतपूर्व सचिवः मलयालं विश्वविद्यालयस्य भूतपूर्वकुलपतिः कविः के जयकुमारः  पुरस्कारं दत्तवान्।
कोच्चीनगरे अट्टस्य  भूरन्तर्गमनः - निर्माणे अपाकः इति सूच्यते।
      कोच्ची > कलूरस्थ मेट्रोरेल् यान निस्थानस्य समीपे निर्मीयमानः अट्टः भग्नीभूय भूमेः अन्तः प्रविष्टः। अस्य घटनायाः कारणं निर्माणस्य अपाकः इति सूच्यते। आधारविधानस्य क्षमताप्राप्त्याः पूर्वम् उपर्युपरि अट्टनिर्माणं कृतम् इति बलक्षयस्य कारणत्वेन उह्यते।
     अट्ट निर्माणस्वामिनः निर्माणाय परिकल्पितः अधिकारः  कोच्ची कोर्परेषन् अधिकारिभिः प्रतिस्वीकृतः। अस्मिन् घटनायाम् आरक्षकैः विकल्पनियामकविधानं स्वीकृतम्। गुरुवासरे रातौ एव अट्टः भग्नः। भूमेः अन्तर्भागे  त्रिंशत्पादमितेषु गर्ते  पञ्चशतं स्थम्भेषु निर्मितमासीत् अयम् अट्टः।
      अपघातकाले अट्टे कर्मकराः नासन् इत्यनेन जीवहानिः नास्ति। समीपस्थ अट्टाः च भीषायामेव। मार्गस्य पार्श्वे भूभङ्गः दृश्यते। अतः मार्गस्य बलं वर्धापयित्वा एव गतागतस्य पुनस्थापना भविष्यति।
ऐ पि एल् २०१८- शतकशोभया वाट्सन्
-रजीष् नम्पीशः
   पूने > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडायां चेन्नै दलस्य षेयिन् वाट्‌सनेन शतकं प्राप्तम्। सः १०६ धावनाङ्कैः सह अपराजितः आसीत्। स्पर्धायां चेन्नैदलेन राजस्थानदलस्योपरि ६४ धावनाङ्कानाम् उज्ज्वलविजयः प्राप्तः। अङ्कः - चेनै सूपर् किङ्स् २०४/५  राजस्थान्  रोयल्स् १४०/१०.

Friday, April 20, 2018

'लाेय' आदेशस्य प्रखापनानन्तरं सर्वोच्चन्यायालयस्य अन्तर्जालपुटं बलात् नीतम्।
       नवदिल्ली> न्यायाधीशस्य लोयवर्यस्य निधनम् अधिकृत्य स्वतन्त्रान्वेषणं नावश्यकम् इति सर्वोच्चन्यायालयेन आदेशे प्रदत्ते सति न्यायालयस्य अन्तर्जालपुटं चोरितम्। है टेक् ब्रसील् इति अन्तर्जाल चोराः एव घटनायाः पृष्टतः वर्तन्ते। २०१३ तमे संवत्सरे भारतस्य अन्तर्जालपुटेन साकं शताधिकानि अन्तर्जालस्थानानि एतैः चोरितानि। सि बि ऐ संस्थायाः विशेषन्यायालयस्य  न्यायाधिपस्य बि एच् लोयवर्यस्य निधनमधिकृत्य स्वतन्त्रान्वेषणम् आश्यकम् इत्युक्त्वा बहूनि सार्वजनिकपरिदेवनानि लब्धानि। परिदेवनानाम् अवलोकनानन्तरम् न्यायालयेन सर्वं परित्यक्तम् | परिदेवनानां परित्यक्त्यनन्तरं कतिपयनिमिषान्तरेण एव अन्तर्जालस्थानं चोरितम्।
विवो ऐ पि एल् मध्ये गेयिल् ताण्डवम्
रजीश् नम्पीपीशः
       चण्डीगड् > विवो ऐ पि एल् क्रिकेट् २०१८ सपर्यायाम्   पञ्चाबदलस्य कृते क्रिस् गेयिलेन ऐ पि एल् २०१८ मध्ये प्रथमशतकम् प्राप्तम्। ह्यः सम्पन्नक्रीडायां पञ्चाबदलं १५ धावनाड्कैः हैदराबाद्‌दलम् पराजयत्। अङ्काः - किङ्स् इलवन् पञ्चाब्-१९३/३ सण्रैसेर्स् हैदराबाद्-१७८/४ ।

Thursday, April 19, 2018

विद्यालयेषु छात्र-सुरक्षार्थं मार्गरेखा कार्या - सर्वोच्चन्यायालयः। 
     नवदिल्ली > आराष्ट्रं विद्यालयेषु छात्राणां सुरक्षायै क्रियापद्धतिः मासत्रयाभ्यन्तरे सिद्धा कार्या इति केन्द्रसर्वकारं प्रति सर्वोच्चन्यायालयेन आदिष्टम्। 
    गुरुग्रामे विद्यालये हतस्य सप्तवयस्कस्य पितुः केषाञ्चन नीतिज्ञानां च अभियाचनामनुसृत्य एवायम् आदेशः। क्रियापद्धत्यां सर्वकार निजीयमण्डलेषु विद्यमानाः सर्वे विद्यालयाः अन्तर्भाव्याः इति ए . के. गोयल् , आर् एफ् नरिमान् इत्येताभ्यां न्यायाधीशाभ्यां निर्दिष्टम्।
भारत-नेपाल्-चैना  आर्थिकोपकक्षा योजनया चीनः। 
          बैजिङ्ग् > हिमालयस्य मार्गेण भारत -नेपाल् -चीना साम्पत्तिकोपकक्षा इति नवीनयोजनया सह चीनाराष्ट्रः। नेपालराष्ट्रे के.पी. शर्मा उली महोदयस्य नेतृत्वे नूतनसर्वकारस्य प्रवेशनन्तरमेव चीनेन  इयं योजना आविष्कृता इति पि टि ऐ वार्ता संस्थया आवेदिता।
       चैना-नेपाल् राष्ट्रयोः विदेशकार्य मन्त्रिणोः संयुक्तोपवेशने एव अयं निर्देशः समागतः।  गतागत संविधानानाम् उद्कर्षाय अधिककोटिनां 'बेल्ट् आन्ट् रोड्' योजनायाः कृते नेपालचीना सख्यः पूर्वंमेव  हस्ताक्षरीकृतः आसीत्। राष्ट्रियमार्गाः रेल् मार्गाः नौकाश्रयकेन्द्राणि, विमाननिस्थानानि च मिथः बन्धयित्वा एव इयं नूतना योजना। तृभ्यः राष्ट्रेभ्यः अनया योजनया आर्थिकोन्नतिः भविष्यति इति नेपालचीनयोः मतम्। सन्दर्भेऽस्मिन्  योजनायाः सौविध्याय भारतचीनयोः साह्यकरणम्  नेपालेन अभ्यर्थितम्। पूर्वं पाकिस्थान-चीनयोः आर्थिकोपकक्षा भारतेन निवारिता इति निधाय एव नेपालस्य इयम् अर्थना।
बि सि सि ऐ संस्था विज्ञप्त्यधिकार-नियमस्य परिधौ बन्धनीया - नियमायोगः।
        नवदिल्ली> बि सि सि ऐ संस्था अपि विज्ञप्ति अधिकार नियमस्य परिधौ बध्नातुं भारतनियम आयोगेन केन्द्र सर्वकारः निर्दिष्टः। बि सि सि ऐ संस्थायाः परिरक्षायां विद्यमान: राज्य स्तरीय क्रिक्कट संस्थाः अपि विज्ञप्त्यधिकार नियमस्य परिधौ योजनीयमिति न्यायाधीशेन बि चौहानेन अध्यक्षतामलंकुर्विता नियम आयोगेन निर्दिष्टः। एतदर्थं प्रथमतया बि सि सि ऐ संस्थां राष्ट्रियकायिक समितिः इति अङ्गीकरणीया इत्यपि निर्देशे अस्ति।
 उपर्युक्तकार्याणां समवेक्षणाय नियमायोगः सर्वोच्चन्यायालयेन आदिष्टः आसीत्।

Wednesday, April 18, 2018

पलास्तिकस्य अन्तकः अवतरितः। परिस्थितिवादिनः सन्तुष्टाः।
लण्टन् > पलास्तिकस्य अन्त्यं कर्तुं शक्तः 'एन् सैं' नाम विशेषवस्तुः अमेरिका ब्रिट्टन् राष्ट्रयोः वैज्ञानिकैः संवर्धितः। ब्रिट्टणस्य पोर्ट्स् मौत्  विश्वविद्यालयस्य तथा अमेरिक्क राष्ट्रस्य ऊर्ज विभागस्य नाषणल् रिन्यूवबिल् एनर्जी लबोरट्टरी संस्थायाः वैज्ञनिकाः च मिलित्वा एव नूतनं 'एन् सैं'  संवर्धितम्। पलास्तिक कूपीनिर्माणाय उपयुज्यमाना पोलि एत्लीन् टेरिफ़्तलेट् इति वस्तुं व्ययीकर्तुमुपायः भवति नूतनानुसन्धानम् इति समाश्वासाय भवति।

रुप्यकपत्राणि अलभ्यानि - ५०० रुप्यकपत्राणं मुद्रणं पञ्चगुणितं वर्धाप्ययते।
       नवदिल्ली> राष्ट्रे रुप्यकपत्राणाम् आवश्यकता वर्धिता। सन्दर्भेऽस्मिन् पञ्चशतानां (५००) रुप्यकपत्राणां मुद्रणं पञ्चगुणितं वर्धानं कर्तुं सर्व कारेण निश्चितम्। आर्थिकमन्त्रालयस्य सजिवेन सुभाष् चन्द्रगार्गेण आवेदिता इयं वार्ता। राष्ट्रस्य कश्चन भागेषु रुप्यकपत्राणां  दौर्लभ्यं अस्ति इति आवेदनेन भवति अयं निर्णयः। इदानीं प्रतिदिनं पञ्चशतं कोटि रुप्यकाणं नूतनरुप्यकपत्राणि मुद्रणं कुर्वन्ति। एतस्य मुद्रणस्य पञ्चगुणितं  इति वर्धापयितुम् उद्दिशयते । दिनाभ्यन्तरेण एतत् भविष्यति।
        रुप्पकपत्राणां दौर्लभ्यं यथार्थतः नास्ति। अष्टादशलक्षं कोटिरुप्यकाणां पत्राणि इदानीं प्रचाल्यमानानि सन्ति।  आन्ध्राप्रदेशः तेलङ्काना कर्णाटकं मध्यप्रदेशः बीहारः इत्येतेषु राज्येषु रुप्यकपत्राणां दौर्लभ्यं अस्ति इति आवेदनम् आगतम् । अतः एव अधिकाया मुद्रणं करणीयम् इति निश्चयम् अभवत् ।
टि वि आर् षेणायी दिवं गतः। 
     मङ्गलुरु > प्रमुखः पत्रकारप्रवर्तकः  लेखकः च टि वि आर् षेणायी [७७] दिवंगतः। वृक्करोगबाधितः सः मणिप्पाल् कस्तूर्बा मेडिक्कल् कोलेज् आतुरालये चिकित्सायाम् आसीत्।  केरले एरणाकुलं जनपदे चेरायी स्वदेशीयः सः 'दि वीक्' साप्ताहिकस्य सम्पादकः आसीत्। मलयालमनोरमा, मातृभूमी इत्यादिषु पत्रिकासु बहुकालं सेवानिरतः आसीत्। २००३ तमे संवत्सरे पद्मभूषण् पुरस्कारेण आदृतः।   बुधवासरे सायं मृतशरीरंं दिल्लीं  नेष्यति। गुरुवासरे अन्त्येष्टिकर्माणि संपत्स्यन्ति।
डेङ्ग्यु ज्वरं विरुद्ध्य आयुर्वेद औषधं निष्पादितम्।
        बङ्गलूरु> भारतवैज्ञानिकाः डेङ्ग्यु ज्वरं विरुद्ध्य  आयुर्वेदौषधम् निर्मितवन्तः। केन्द्र आयुष्मन्त्रालयस्य  परिरक्षायां वर्तमाना सेन्टर् कौण्सिल् फोर् रिसर्च् इन् आयुर्वेदिक् सयन्स् इति नामिकया संस्थया  एव औषधनिर्माणं कृतम्।
औषधस्य क्षमतानिर्णयाय क्रियाविधयः समारब्धाः। कर्णाटकस्य बल्गामस्थ कोलारस्थयोः औषधकलाशालयोः एव क्षमतापरीक्षा प्रचलति।
       अस्य रोगस्य शमनाय सप्तौषधानां विशेषयोगेन एव औषधनिर्माणं  क्रियते । विश्वे इतःपर्यन्तं अस्य रोगस्यनिवारणाय औषधं न निर्मितम्।  नवति संख्याकानाम् जानानाम् उपरि चिकित्सां प्रचाल्य विजयप्राप्तिः चेत् आगामि संवत्सरे औषधम् अधिकतया निर्मातुम् शक्यते ।

Tuesday, April 17, 2018

सिन्धू-नदीतट-संस्कृतिः ग्रीष्मातपेन नष्टाः - ऐ ऐ टि वैज्ञानिकाः।
         खरग्पुरम्>  ९०० संवत्सरस्य अत्यातपेन सिन्धू नदीतटसंस्कृत्याः नाशः अभवत् इति खरग्पुर ऐ ऐ टि संस्थायाः वैज्ञानिकानां मतम्। तेषाम् अनुसन्धाने ४३५० संवत्सराणां पूर्वं अत्रत्याः संस्कृतिः पूर्णतया नाशं अभवत् इति वदति। गतपञ्चसहस्रं(५०००) संवत्सराणां वृष्टिलभ्यताम् अधिकृत्य भूगर्भ भौमोर्ज-विभागयोः संयुक्तानुसन्धाने एव इदं दर्शनम्।

         अनेन कारणेन हिमालयपर्वतस्थ जलस्रोतांसिरपि शुष्काः अभवत्। एवं सिन्धू-नदीतटनिवासिनः जलम् अन्विष्य पूर्वदक्षिणदिशिं प्रति पलायिताः इति च अध्ययने उच्यते। ले लडाक्कस्थ सोमोरि सरसः पञ्चसहस्रं    संवत्सरस्य वृष्टिमापनं कृत्वा एव अध्ययनफलं प्रकाशितम्। 

Monday, April 16, 2018

कोल्कत्त मेट्रो रेल्यानं गुहायां स्थगितम्।
            कोल्क्कत्त> साङ्केतिक भङ्केन  कोल्कत्त मेट्रो रेल्यानं गुहायां स्थगितम्। जनाः स्फाटिक-फलकानि भग्नीकृत्य रक्षां प्राप्तवन्तः। रविवासरे रातौ ९.३० वादने एव घटना जाता। नेताजी रेल् निस्थानस्य समीपे स्थगिते याने  वैद्युताभावेन अन्धकारं व्याप्तम्। यात्रिकाः गवाक्षाणां स्फाटिकफलकानि भग्नीकृत्य रक्षां प्राप्तवन्तः। विंशति निमिषेन सर्वान् बहिरानीतम् इति रेल् अधिकारिणा उक्तम्l कोऽपि व्रणिताः नास्ति इत्यपि तैः उक्तम्। दक्षिणं प्रति स्थगितं गमनं कतिपयनिमिषाभ्यन्तरेण पुनरारब्धम्।
भारतस्य प्रधानमन्त्री अद्य विदेशं प्रतिष्ठति। 
        नवदिल्ली > भारतप्रधानमन्त्री नरेन्द्रमोदी पञ्चदिनात्मकसन्दर्शनाय अद्य प्रतिष्ठति। स्वीडन् ब्रिट्टन् इत्यस्मिन् राष्ट्रद्वये प्रधानमन्त्रिणः पर्यटनं भविष्यति। द्वाभ्यां  राष्ट्राभ्यां सह परस्परसम्बन्धवर्धनार्थं बहूनि कार्याणि चर्चिष्यन्ति। नरेन्द्रमोदिनः प्रथमा स्वीडन् यात्रा भवति। परस्परव्यापारसम्बन्धीनि सम्भाषणानि आयोजितानि सन्तीति अभिज्ञवृत्तैः निगदितम्।
दिल्यां रोहिङ्यानाम्  अभयार्थिसत्रे अग्निबाधा।
         नवदिल्ली > म्यान्मर् राष्ट्रतः आगतानाम् अभयार्थिनां सत्रे अग्निबाधा अजयत। दिल्लीस्थे कलिन्दकुञ्च देशस्थे सत्रे एव अग्निबाधा अभवत्। अद्य प्रभातात् पूर्वं सर्धात्रिवादने (३:३०) अग्निबाधा अभवत्। अतिकठिनपरिश्रमेण दशकलोन षट् वादने अग्निः नियन्त्रण विधेया जाता। एकादश अग्निशमनसेनावृन्दानि मिलित्वा अत्यधिकश्रमेण एव अग्निः विधेयः अभवत्I आपघाते षट्चत्वारिंशत् (४६ ) लघु गृहाणि भस्मीभूतानि। २२८ अभयार्थिनाम् आवासकेन्द्राणि विनष्टानि। किन्तु अपमृत्युः न अभवत्। दिल्ली आरक्षकैः अन्वेषणम् आरब्धम्।

Sunday, April 15, 2018

अम्बेदकरप्रतिमा अयोमयकवचेन बन्धिता; आरक्षकाणां सुरक्षापि विधीता।
-रम्या पि यु
          बदायूम्>उत्तरप्रदेशस्थे बदायूमे अम्बेदकरप्रतिमा अयोमयकवचेन बन्धिता। व्यापकतया अम्बेदकरप्रतिमा: नाशोन्मुखीकृता: इति घटनानाम् अनुवर्तनमिदम् प्रवर्तनम्। प्रतिमाबन्धनस्य पृष्ठत: को वा स्यादिति ज्ञानं नास्ति- आरक्षका: अवदन्। प्रतिमाया: सुरक्षाविधानस्य श्रमस्य भाग: स्यादेदत् प्रवर्तनमिति आरक्षका: निरूपयन्ति। सुरक्षाभागतया त्रयः आभ्यन्तररक्षकाः  प्रतिमायाः समीपं नियुक्ताः ।

Saturday, April 14, 2018

मणिका बत्रायै सुवर्णं - डेबिल् टेन्नीस् स्पर्धायां भारताय लाभः।
        गोल्ड् कोस्ट्> कोमण् वेल्त्त् स्पर्धायां इतिहासं विरच्य भारतस्य टेबिल् टेन्नीस् क्रीडका मणिकाबत्र। कोमण् वेल्त्त्त्री स्पर्धायां टेबिल् टेन्नीस् क्रीडायां सुवर्णपतकं प्राप्ता प्रथमा भारतीयवनिता इति ख्यातिः मणिका बत्रया अवाप्ता। सिंगपुर राष्ट्रस्य ग्यु यु नामिकां विजित्य एव सुवर्णप्राप्तिः। अङ्कः  यथाक्रमं 11-7, 11-6, 11-2. 11-7. भारतस्य चतुर्विंशति (२४) तमं सुवर्णं भवति इदम्।
अमेरिक्का सहकारिणां सहयोगेन सिरियस्योपरि आक्रमणम् अकरोत्।

    वाषिङ्टण् > डूमा देशे रासायुधस्य प्रयोगः कृतः इत्यारोप्य सिरियाराष्ट्रं विरुद्ध्य स्वस्य युद्धसहकारिणः साहाय्येन अमेरिक्का सिरिया राष्ट्रस्योपरि आक्रमणम् अकरोत्। रासायुधानां सम्भृतकेन्दे एव आक्रमणम् अकरोत्। यु एस्, यु के, फ्रान्स् एते भवन्ति संयुक्तसेनादलेषु। आक्रमणस्य वार्ता यू एस् राष्ट्रपतिः ट्रम्पः तथा अन्ये राष्ट्राघिपाः प्रमाणीकृतवन्तः। दमास्कस् प्रदेशात् विस्फोटक शब्दाः श्रूयते इति आवेदनम् अस्ति। दमास्कसस्थ-सिरिय-वैज्ञानिक अनुसन्धानकेन्द्रः आक्रमितः इति 'सिरिय-ओब्सर्वेट्टरि फोर् ह्यूमन् रैट्' नामिका मानवाधिकार-संस्थया आवेदितः।
पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणे  नवास् षेरीफाय आजीवनान्तनिरोधः।
        इस्लामबादः> अलीकारोपणविधेयं पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणं  नवास् षेरीफं पाकिस्थानीयसर्वोच्चन्यायालयः अयोग्यं अकारयत्।  इदं दण्डनं यावज्जीवं इति रूपेण प्रबलं स्यात्। पानम पत्रिका विवादानन्तरं प्रधानमन्त्रीपदं  परित्यक्तवानासीत्। किन्तु सर्वोच्चन्यायालयस्य विधिनिर्णणयेेन प्रत्यागमन सन्दर्भः अस्तंगतः। पाकिस्थानस्य शासन-संविधानस्य विभागः ६२ (१) एफ् अनुसृत्य आजीवनान्तं निर्वाचनेषु स्पर्धितुं निरोधः एव सर्वोच्चन्यायालयः आदिशत्।  त्रिवारं प्रधानमन्त्रिपदम् अलङ्कृतवान् नवास् षेरीफः।
       पानमा-पत्रीका-विवादानन्तरम् अलीकव्यवहार-पत्रिकायाः पञ्जीकरणकारणेन  स्थानत्यागम् अकरोत्।  अयं व्यवहारः इदानीमपि न्यायालयस्य निर्णयाय वर्तते।

Friday, April 13, 2018

संस्कृते बालसाहित्यमित्याख्या राष्ट्रियसङ्गोष्ठी समायोजिता
विशेषावेदनम्
प्रत्ननगर्यां काञ्चीपुरे गत पञ्चविंशतिवर्षेभ्यः कश्चन मानितविश्वविद्यालयः विराजते श्रीचन्द्रशेखरेन्द्रसरस्वतीविश्वमहाविद्यालय इति नाम्ना। अस्य विश्वविद्यालयस्य संस्कृतभारतीयसंस्कृतिविभागः सर्वदा सर्वथा च संस्कृतस्याभिवर्धने सेवायां च विभिन्नानां संस्थानां सहयोगेन तत्परो भवति। सम्प्रति अनेन विभागेन पाण्डिचेरीस्थ श्री अरविन्द फाउण्डेशन् फोर् इण्डियन् कल्चर् (Sri Aurobindo Foundation for Indian Culture - SAFIC) इत्यस्याः संस्थायाः संस्कृतबालसाहित्यपरिषदा सह अप्रैल्-मासस्य चतुर्थदिनाङ्कादारभ्य षष्टमदिनाङ्कपर्यन्तं संस्कृते बालसाहित्यमित्याख्या राष्ट्रियसङ्गोष्ठी आयोजिता। संस्कृते बालसाहित्यमित्याख्या सङ्गोष्ठी आभारते द्वितीया भवति। अस्याः उद्घाटनं अप्रैल्-मासस्य चतुर्थदिनाङ्के श्रीचन्द्रशेखरेन्द्रसरस्वतीविश्वमहाविद्यालय इति मानितविश्वविद्यालये सञ्जाता।
कार्यक्रममुं विश्वविद्यालयस्य
परमाधिकारी मुख्यन्यायाधीश एवेति सर्वोच्चन्यायालयः।
     नवदिल्ली> पीठिकारूपीकरणे दण्डनविधीन्‌ विभक्तुञ्च अधिकारः मुख्यन्यायाधीशस्येति सर्वोच्चन्यायालयः। मुख्यन्यायाधीशस्य पीठे द्वौ ज्येष्ठन्यायाधीशौ योजनीयौ इति निवेदनं अवलोक्य एव न्यायालयस्य अयं आदेशः। लख्नौ स्वदेशिना अशोकपाण्डे नामकेन समर्पितं निवेदनं एवं तिरस्कृतम्। सर्वोच्चन्यायाधीशस्य दीपकमिश्रस्य आध्यक्ष्ये वर्तमाना पीठिका एव निवेदनं पर्यगणयत्।
   सर्वोवोच्चन्यायालयस्य उच्चन्यायालयस्य च विधीन् परिगणितुम् पीठिकां निर्णेतुञ्च मार्गनिर्देशाः विधेयाः इति अशोकपाण्डे नामकः निवेदनमयच्छत्। उन्नतन्यायालयानां दायित्वम् मुख्यन्यायाधीशे निक्षिप्तं भवति शासनव्यवस्थया। मुख्यन्यायाधीशः एव उन्नतन्यायालयानां नायकः। न्यायालयप्रक्रियायाः सुगमचालनाय नियुक्तः भवति मुख्यन्यायाधीशः इति अशोकपाण्डस्य निवेदनं तिरस्कृत्य न्यायालयः व्यक्तम् अकरोत्।  
राष्ट्रे अर्धभागः अध्यापकाः असंतृप्ताः। 
    नवदिल्ली > भारते सर्वकार - आर्थिकसाह्याधिष्ठित विद्यालयेषु सेवां कुर्वत्ससु अध्यापकेषु अर्धांशः असंतृप्ताः इति एन् सि ई आर् टि संस्थया कृतेन समग्रान्वेषणे स्पष्टीकृतम्। ४३ शतमितम् अध्यापकाः पाठ्यपद्धतेः लक्ष्यं किमिति अज्ञाः भवन्ति।
    ७०१जनपदेषु १,१०,००० विद्यालयेषु ३, ५ , ८ कक्ष्याणां २,७०,०६१ अध्यापकेषु कृतं बृहत्तमं  समग्रान्वीक्षणं भवत्येतत्। ५०.९७% अध्यापकाः सेवायां पूर्णतृप्तिं प्रकाशितवन्तः। ५६.६२% शिक्षकाः पाठ्यपद्धतिलक्ष्यज्ञाः भवन्ति।  *केरले* ७७% अध्यापकाः लक्ष्यज्ञाः सन्ति।  ५२% अध्यापकाः स्वकर्मणि संतृप्ताः भवन्ति! *उत्तरप्रदेशस्य* अवस्था दयनीया भवति। संतृप्ताः केवलं ५% अध्यापकाः। लक्ष्यज्ञाः ३% चI

Thursday, April 12, 2018

अल्जीरिया राष्ट्रे सैनिकविमानापघातः १०० जीवनाशः
         अल्जियेर्स्> अलजीरियराष्ट्रस्य राजधान्याम् अळ्जियेर्स्  नगरे सैनिकविमानापघातेन शताधिकाः मृताः इति आवेदितम्। बुधवासरे प्रभाते बफरिक् सैनिक विमाननिलयस्य समीपे इल्यूषिन् II-76 इति विमानम्  अपतत् ।  १२० आसन्तक्षमता युक्तम् आसीत् विमानम्। दक्षिण-पश्चिम अल्जीरियस्थे बच्चार् नगरं प्रति गम्यमानम् आसीत् विमानम्। विमाननिलयात् उड्डयित्वा तस्मिन् क्षणे एव अधः पतितम्। अपघातस्य कारणं न ज्ञातम्। रक्षाप्रवर्तनानि अनुवर्तन्ते। राजधानीतः ३० किलोमीट्टर् दूरे एव  अपघातस्यस्थानम् । मेडिट्टरेनियन् सागरः अपि विमाननिलयस्य नातिदूरे वर्तते।
'कोमण् वेल्त्' क्रीडाचक्रं - भारतस्य पुरोधावनमनुवर्तते। 
       गोल्ड् कोस्ट् > आस्ट्रेलियायां सम्पद्यमानायां कोमण् वेल्त् राष्ट्राणां क्रीडापरम्परायां १२सुवर्णकीर्तिमुद्राः अभिव्याप्य २४ मुद्राभिः भारतस्य पुरोधावनमनुवर्तते। इदानीमपि भारतं तृतीयस्थानमावहति। ५७ सुवर्णमुद्राभिः सह १४५ मुद्राभिः आस्त्रेलिया एव अग्रे सरति। २५ सुवर्णैः सह ४५कीर्तिमुद्राभिः इङ्लण्ट् राष्ट्रमेव  द्वितीयस्थाने।

Wednesday, April 11, 2018

मुखपुस्तकसुहृद्भिः निजीयसूचनाः अपहार्यमाणा इति निर्धारणम्। 
बोस्टण् > केम्ब्रिज् अनलटिका विवादमनुगम्य 'फेस् बुक्' नामकेन समाजमाध्यमद्वारा व्यक्तीनां गोप्यमानाः  निजीयवृत्तान्ताः अपि अपहार्यन्ते इति न्यूयोर्कस्थस्य स्टान्फड् विश्वविद्यालयस्य केनचन सङ्घेन कृते गवेषणे एवायमधिगमः। 
      फेस् बुक् उपयोक्तॄणां वृत्तान्ताः तेषां सुहृद्भिः प्रसुहृद्भिश्च अपह्रियन्ते इत्येव अधिगमः! सामाजिकमाध्यमेषु अङ्गभूतः तर्हि निजीयं गोप्यवृत्तान्तसंरक्षणं दुष्करमिति सञ्जातम्।
अय्यम्पुष़ हरिकुमाराय दीनदयाल्जी प्रतिभापुरस्कारः।
      कोच्ची > संस्कतभाषायाः कृते इतःपर्यन्तं दत्तं समग्रं योगदानं परिगणय्य 'सम्प्रतिवार्ता'याः मुख्यसम्पादकाय अय्यम्पुष़ हरिकुमाराय दीनदयाल् जी प्रतिभापुरस्कारः दत्तः। सेवाभारती नामिकया सन्नद्धसेवासंस्थया दीयमानः पुरस्कार एवैषः।
     बाबा अटोमिक् रिसर्च् केन्द्रस्य  भूतपूर्वस्य वरिष्ठ वैज्ञानिकस्य डो. सि के के नायर् वर्यस्य अध्यक्षत्वेन रूपवत्कृतया समित्या एव पुरस्कारः निर्णीतः। कविः, संस्कृतगान- नाटकचयिता , संस्कृताध्यापकः, अध्यापक प्रशिक्षणमण्डले अनेन कृतानि श्रेष्ठयोगदानानि , आधुनिकपारिभाषिकसंकेतान् संस्कृतभाषां सन्निवेश्य छात्रेषु प्रचोदनम् उत्पादयन् विश्वे अपि इदंप्रथमतया छात्राः वार्तावतारकरूपेण अनुवर्तमानः 'सम्प्रतिवार्ता' इति ओण्लैन् दिनपत्रिकायाः दृश्यवार्तावाहिनी प्रसरणसंकेतः इत्यादीनि विविधानि योगदानानि परिगण्य  आसीत् पुरस्कार निर्णयः।  
     सेवाभारत्याः अङ्कमाली शाखायाः  सांवत्सरीयाघोषकार्यक्रमे  डो. साजन् नारायणन् वर्येण   पुरस्कारः दत्तः।
राष्ट्रियसुरक्षाबलस्य विशेषकार्यक्रमस्योद्घाटनम् I
 -पुरुषोत्तमशर्मा
     हईद्राबादः > गृहमन्त्री राजनाथसिंह: प्रावोचत् यत् देशे जम्मूकश्मीरमतिरिच्य प्रवर्तमानातङ्किगतिविधय: निराकृता:। असौ गतदिने हैदराबादं निकषा ईब्राहिमपट्टनम् क्षेत्रे एन्.एस्.जी इति राष्ट्रियसुरक्षा-बलस्य विशेषकार्यक्रमम् उद्घाटयति स्म  सामाजिकसञ्चारतन्त्रे आतङ्किगतिविधीनां वृद्धिमालक्ष्य अमुना राष्ट्रियसुरक्षाबलं निजसामरिकप्रौद्योगिकक्षमतानां विस्ताराय समाकारितम् ।
नववर्षाणाम् प्रतीक्षायाः अन्ते भारतसेनायै गोलिकास्त्रप्रतिरोधककञ्चुकप्राप्तिः।

     नवदिल्ली> गोलिकास्त्रप्रतिरोधकं कञ्चुकमावश्यकमिति भारतसेनायाः अपेक्षा नववर्षानन्तरम् सफला भविष्यति। भौमसेनायै एकम् दशांशम् अष्ट षट् ( 1.86) लक्षं गोलिकास्त्रप्रतिरोधकानि कञ्चुकानि क्रेतुम् प्रतिरोधमन्त्रालयः कयाचित् निर्माणशालया सह सम्मतिपत्रे हस्ताक्षरमदात्। ''भारते निर्माणम्''(मेय्क् इन् इन्ड्या) पद्धतिमनुसृत्यैव एतत् सम्मतिपत्रम्। नवत्रिंशदुत्तरषट्शतम् कोटिव्ययेन एस् एम् पी पी प्रैवट् लिमिटड् नाम कार्यशाला एव एतादृशकञ्चुकानां निर्मातारः।वर्षत्रयाभ्यन्तरे एव सम्पूर्णकञ्चुकानां निर्माणं समाप्य सेनायै वितरणं कुर्यादिति कार्यशालावक्तारः अवदन्। सेनामानदण्डाननुसृत्यैव निर्माणम्। बालिस्टिकसंरक्षणाय प्रवर्तमानम् बोरोण् कार्बैड् सेरामिककञ्चुके भविष्यति। एतदतिरिच्य हार्ड् स्टील् कोर् गोलिकास्त्रेभ्यः अपि संरक्षणं दातुं समर्थकं एतत् कञ्चुकम्।

Tuesday, April 10, 2018

'कोमण् वेल्त्' क्रीडाचक्रे भारतं तृतीयस्थानेन पुरोगच्छति। 
         गोल्ड् कोस्ट् > आस्ट्रेलिया राष्ट्रे सम्पद्यमानायां कोमण् वेल्त् राष्ट्राणां क्रीडापरम्परायां दशसुवर्णकीर्तिमुद्राभिः भारतं तृतीयस्थानं प्राप्तम्। ३९ सुवर्णैः सह आस्ट्रेलिया १०६ मुद्राभिः प्रथमस्थाने गच्छति। २२ सुवर्णानि प्राप्य ६३ कीर्तिमुद्राः प्राप्तम् इङ्लण्ट् राष्ट्रं द्वितीयस्थानं च आवहति।
छात्रयानम् अगाधगर्ते पतित्वा ३० मृताः। 
        षिम्ला > हिमाचलप्रदेशे कान्ग्र जनपदे विद्यालयछात्राणां बस् यानं 'आन्पूर् - चम्पा' मार्गमध्ये शतपादपरिमितं गर्तं पतित्वा २७ छात्रान् अभिव्याप्य ३० जनाः मृत्युमुपगताः। यानस्य चालकः, द्वे  अध्यापिके च मृताः। १३ छात्राणाम् अवस्था गुरुतरा वर्तते। 
    'वासिर् रामसिंह पठानिय' स्मारकविद्यालये शिक्षणं कुर्वन्तः नीचतर - उच्चतर स्तरीयाः छात्राः   एव दुर्घटनां प्राप्ताः। विद्यालयात् प्रतिनिवृत्तवेलायामासीत् इयं दुर्घटना।
 संस्कृतभाषा अन्यभाषायाः उपरि तिष्ठेत् - डा ई एन् ईश्वरः
        कोच्ची>    संस्कृतभाषा अन्यभाषायाः उपरि तिष्ठेत्। तदर्थं सर्वत्र संस्कृतभाषायाः प्रचारणं प्रसारणं च भवेत्। विश्वसस्कृत प्रतिष्ठानस्य एरणाकुलं जनपदस्तरीय समापन मेलने भाषमाणः आसीत् सः। न तु केवलम् अनौपचारिकस्थरे औपचारिकस्थरेपि अस्माकं हस्तः स्थापनीयः। प्रथमकक्षायां संस्कृतं स्वीकर्तुं, दशमकक्ष्यानन्तरं द्वितीयभाषारूपेण संस्कृतं स्वीकर्तुं, Degree, MA इत्यादि उन्नतपठनेपि संस्कृतं पठितुं सर्वान् प्ररयेयुः। उन्नतपठने कलालयेषु सर्वत्र चयनानन्तरं अवशिष्ठाः एव संस्कृतपठनाय आगच्छन्ति। तादृशानां हस्ते अस्माकं भाषा कीदृशं भविष्यति? ईदृशच्छत्रान्  अनन्यगतिगतया  छात्राणां न्यूनतया च उत्तीर्णं कारयितुं अध्यापके सम्मर्थः भविष्यति। एवं उत्तीर्णाः छात्राः विद्यालये पाठयति चेत् संस्कृतस्य गतिः का भवति? पठन्तः छात्राः पुनः संस्कृतं पठिष्यति वा इति चिन्तनीयः विषयः। अतः योग्याः पठनियं चेत् संस्कृतम् अध्येतुम् आवश्यकता (demand) भवेत्। तदर्थं सर्वान् प्रेरयामः इति सः सर्वान् चोदितवान् ।   डा. एटनाट् राजन् महोदयस्य अध्यक्षः अभवत् ।  शान्तिमन्त्रम् उक्त्वा सम्मेलनस्य समापनम् अकरोत्। 
मनुष्यस्य प्रथमसौरदौत्याय 'नास' संस्था - विक्षेपणं जुलाई ३१ दिनाङ्के।
         वाषिङ्टण् > मनुष्यस्य प्रथम-सौरदाैत्येन इतिहासस्य भागं भवितुं प्रयतते 'नास' संस्थया। सूर्यस्य बाह्यावरणं लक्षीकृत्य नास संस्थायाः कक्षया सह जुलाई मासस्य एकत्रिंशत् (३१) दिनाङ्के आकाशबाणः उद्गगमिष्यति। डल्ट ४ इति नामाङ्कितः अति शक्तः आकाशबाणे एव  कक्षा प्रेषयिष्यति। सूर्यस्य 'कोरोणा' इति बाह्यकवचम् अधिकृत्य अध्येतुमेव अयं दौत्यम्। इतःपर्यन्तं मनुष्यनिर्मितः कोऽपि वस्तुः सूर्यस्य समीपम् एतावत् न गतवन्तः।

        सूर्यस्य उपरितलात् अष्टनवति लक्षं किलोमीट्टर् दूरे भ्रमणपथे एव कक्षा सूर्यं परितः भ्रमणं करोति। फ्लोरिडायाः केन्नडि स्पेस् सेन्टर् नाम केन्द्रतः  एव विक्षेपणं भविष्यति। इयं योजनायाः सप्तवर्षस्य आयुः निश्चितः अस्ति।  सूर्यस्य बाह्यकवचम् अधिकृत्य, तथा नक्षत्रान् अधिकृत्य इदानीं विद्यमान-संशय-निवारणं  च लक्ष्यम्। पार्कर् इति नामाङ्कितः कक्षातः भविष्यकाले बाह्याकाश सञ्चारी, क्रित्रिमोपग्रहः एतयोः सुरक्षायै उपकारकं  ज्ञानम् च लब्स्यते| 

Monday, April 9, 2018

संस्कृताध्यापकाः परिवर्तनवक्तारः भवन्तु इत्याह्वयन्तं SRG सत्रं समारब्धम्। 
सर्वशिक्षा अभियानस्य कार्याधिकारी प्रकाश् बाबुः उद्घाटनं करोति।
     गुरुपवनपुरिः> केरलस्य प्राथमिकस्तरीयाध्यापकानां कृृते विरामकालशक्तीकरणमनुबन्ध्य राज्यस्तरीय तज्ञसंघ सत्रं [SRG] समारब्धम्। गुरुपवनपुरसमीपस्थे शिक्षकसदने आयोजितां पञ्चदिनात्मिकां परिशीलनपद्धतिं तृश्शिवपेरूर् जनपदीयस्य सर्वशिक्षा अभियानस्य कार्याधिकारी प्रकाश् बाबुः उद्घाटनं कृतवान्।  अध्यापकाः सामान्यतया समाजपरिष्करणस्य सूत्रधारिणः भवन्ति। संस्कृताध्यापकाः विशिष्य सांस्कृतिकपरिवर्तनस्यापि हेतुभूताः  इत्यतः कक्ष्याप्रकोष्ठैः समाजपरिवर्तनस्य वक्तारः भवन्तु इति उद्घाटकेन उदबोधयत्।  उद्घाटनसभायां बि पि ओ जयावर्या अध्यक्षा अभवत्। एम् जि राजशेखरः, विपिन् तोमसः, जे श्रीलता , श्रीकुमारः इत्येते भाषणमकुर्वन्। परिशीलनं शुक्रवासरे समापयिष्यति।

Sunday, April 8, 2018

कृणमृगहत्याविषयः - सल्मान् खान् प्रतिभूदानेन मुक्तः। 
          जोध् पुरम्  > कृष्णमृगहत्याविषये पञ्चसंवत्सरात्मककारागारवासेन दण्डितः प्रसिद्धः 'बोलिवुड्' चलनचित्रनटः सल्मान्खानः प्रातिभाव्यं प्राप्तः। शास्त्रीयप्रमाणस्य अभावः अस्तीति सन्मान् खानस्य वादं परिगणय्य एव जोध् पुरं सेषन्स् नीतिपीठस्य अयमादेशः। अपि च सल्मान् खानः सद्गुणसम्पन्नः भवतीति नीतिपीठेन निरीक्षितम्।   तथा च येन न्यायाधीशेन  सल्मान्खानः पञ्चवर्षीयकारागारं प्राप्तः तस्य स्थानान्तरमभवत्। सल्मानः मुक्तश्च।
सि बि एस् इ प्रश्नपत्रस्य गुप्तस्रवणम् - हिमाचलप्रदेशतः त्रयः ग्रहीताः 
          नवदिल्ली> सि बि एस् इ द्वादशकक्ष्यायाः  आर्थशास्त्र  परीक्षायाः प्रश्नपत्रस्य गुप्तस्रवणानुबन्धतया त्रयः गहीताः । दिल्ली विरलपातकान्वेषण विभागेन  एते ग्रहीताः। ग्रहीतेषु  एकः अध्यापकः द्वौ विद्यालयोद्योगिनौ च सन्ति इति ए एन् ऐ वार्ता संस्थया आवेदितम्। 
          कर्कश-प्रश्नकरणाय एते अपराधिनः राजधानीं नीताः। प्रश्नपत्रस्य हस्तलेखन प्रतिलिप्यः एव गुप्तेन स्रविताः इति प्राथमिकान्वेषणे दृष्टाः आसन्। अन्वेषणस्य विशदांशाः दिनाभ्यन्तरेण आवेदयिष्यते इति दिल्याः आरक्षकेण उक्तम्।  विभागेन उक्तम्।

Saturday, April 7, 2018

रष्याविरोधे पुनरपि तीक्ष्णक्रियाकलापैस्सह यू एस्।
-रम्या पि यु
      वाषिङ्टण्> रष्यायाः राष्ट्रियनेतृन् व्यवसायिनः च विरुद्ध्य   साम्पत्तिकोपरोधैः सह यू. एस्। शुक्रवासरे रष्याव्यवसायिनामुपरि यू. एस् नूतनोपरोधम् प्रायुङ्क्त। यू एस् निर्वाचने रष्यायाः योगदानं सम्बद्ध्य वार्तासु बहिरागच्छत्सु सत्सु एव उपरोधसन्निवेशः। रष्याशासनव्यवस्थया सह साक्षात् सम्बद्धानामुपरि तथा यू एस् राष्ट्रपतेः डोनल्ड् ट्रम्पस्य निर्वाचनप्रचरणेषु भागं स्वीकृतवताञ्च उपरि भवति यू. एस् उपरोधः। निर्वाचने रष्यासान्निद्ध्यं संसूच्य वार्तानामागमनस्य पश्चात् तीक्ष्णक्रियाकलापानां कृते ट्रम्पस्य उपरि यू एस् कोण्ग्रसेन सम्मर्दः कृतः। वर्तमानक्रियाकलापानामपि एतदेव कारणम्। राष्ट्रस्य उन्नतवर्गस्य कृते रष्यासर्वकारस्य प्रवर्तनमिति  यू एय् ट्रषरी अध्यक्षः स्टीवन् म्यूचिनःदोषम्  आरोपयत्। अत्याचारैः धनसम्पादनशीलाः एते। इतरराष्ट्राणि अस्थिराणि कर्तुं रष्यायाः कार्यक्रमान् इतोपि अङ्गीकर्तुं न शक्यते इत्यपि सः सूचितवान्।।
अरुण् जय्ट्ली आतुरालयं प्रविष्टः। 
     नवदिल्ली > केन्द्रवित्तकार्यमन्त्री अरुण् जय्ट्लिवर्यः वृक्करोगबाधितः नवदिल्ल्याम् 'एयिम्स्' [All India Institute of Medical  Sciences] आतुरालयं प्रवेशितः। अद्य तस्य वृक्कसंक्रमणशस्त्रक्रिया भविष्यति। जय्ट्लिवर्यः उत्तरप्रदेशात् राज्यसभां प्रति चितः अपि सत्यप्रतिज्ञां न कृतवान्।
दिल्यां धूलीवातः वृष्टिः च २४ विमानामि  मार्गं भ्रंशीकृतानिI
             नवदिल्ली> अतिशक्तया धूलीवातेन दिल्लीं प्रतिगम्यमानानि चतुर्विंशति विमानानि मार्गाणि परिवर्तितानि। विमाननिलयात् गन्तव्यानां विमानानां गमनानि निवारितानि इति ए एन् ऐ द्वारा आवेदितम्।  ४८ होराभ्यन्तरे शक्तया वार्षायाः वातस्य च सन्दर्भः भविष्यति इति वातावरणविभागेन आवेदितम्।  मर्गस्य दृश्यः आच्छादयित्वा एव धूलीवातः वाति इत्यतः वाहन-गतागतानि स्तगितानि। वृष्ट्या अत्युष्णात् समाश्वासः अभवत्l

Friday, April 6, 2018

स्वीयराष्ट्रे सशान्तिं जीवितुम् इस्रायलीयानामपि अधिकारोस्तीति सौदी राजकुमारः।। 
- रम्या पि यु
             वाषिङ्टण्> स्वीयराष्ट्रे सशान्तिं जीवितुम् इस्रायलीयानाम् अधिकारोस्तीति सौदी किरीटावकाशी मुहमद बिन् सलमानराजकुमारः। यू. एस् मासिक्यै 'द अटलान्टिक् ' कृते  प्रदत्ते अभिमुखे भाषमाणः आसीत् सः। 'पलस्तीनीयानाम् इस्रायलीयानां च स्वीयमृत्तिकायां जीवितुम् अधिकारः वर्तते इति मे मतिः। किन्तु स्थिरतासंरक्षणाय तथा सामान्यगत्या बन्धस्थापनाय च एकं समाधानसम्मतिपत्रमावश्यकम् भवति। जेरुसलेमस्य  विशुद्धदेवालयस्य स्थितौ पलस्तीनजनतायाः अधिकारसम्बद्धविषयेषु च अस्माकम् आशङ्काः वर्तन्ते। एषास्माकम् मतिः। केभ्यश्चित् इतरजनेभ्यः अस्माकम् अभिप्रायभिन्नता नास्ति'। जूतानां स्वीयपैतृकभूमौ जीवितुम् अधिकारोस्तीति चिन्त्यते वेति प्रश्नस्य  प्रतिकरणाय सन्नद्धः आसीत् सः। सौदीराष्ट्रेण एतावता इस्रयेल् किञ्चन राष्ट्रत्वेन नाङ्गीकृतम्। साहचर्येस्मिन् राजकुमारस्य प्रस्तावनायाः मानाः नैकाः।
          सामान्यशत्रुम् इरानं विरुद्ध्य इस्रयेल् सौदी अरेब्यया साकं  प्रवर्तयेदिति ऊहानाम् मध्ये एव सलमानराजकुमारस्य प्रस्तावना। स्वीयराष्ट्रोपरिमार्गेण  इस्रयेलम् प्रति वाणिज्यविमानसेवनाय गतमासे सौदी अरेब्यया  अनुमतिर्दत्ता। चरित्रपरा  एषा घटना इति इस्रयेलस्य कर्मकरैः एषा विशेषिता।।
डिजिट्टल् करन्सि- सन्दर्भः अवलोक्यते इति आर् बि ऐ।
     नवदिल्ली> 'बिट् कोयिन्' विनिमयमधिकृत्य वार्ताः शङ्काः च वर्तमाने सति साख्यक स्प्यकपत्राणां सन्दर्भः अवलोक्यते केन्द्रवित्तकोश संस्थया (RBI) दिनद्वयं यावत् प्रचाल्यमान नीत्यावेक्षण समितेः ( Monetary Policy Committee - MPC) उपवेशने एव निर्देशः समभवत्I 
         विविधराष्ट्रेषु विद्यमानेन  केन्द्रवित्तकोशेन इदानीं डिजिट्टल् रुप्यकपत्रमधिकृत्य चिन्तयति। आर् बि ऐ उपनिर्देशकेन बि पि कनुंगो महाभोगन उच्चते यत् विविध-मन्त्रलयस्य प्रमुखानां  समितिः आयोज्य  विषयेस्मिन् अध्ययनं कृत्वा  अवेदनं समर्पितुं निर्दिष्टः अस्ति। जूण् मासस्य अन्तिमसप्ताहे आवेदनं पूर्णं भविष्यति।
९५० कोटि  निमूल्यीकृतानां  रुप्यकपत्राणां कृते नूतनानि दातव्यानि इति नेपालः।
       काठ्मण्ड्ड > पञ्चाशतधिक नवशतं कोटि रूप्यकाणां निर्मूल्यीकृतानि रुप्यकपत्राणि भारतेन प्रतिदातव्यम् इति नेपालः निवेदयति। नेपालस्य प्रधानमन्त्री के पि शर्म ओलि भारत सन्दर्शनवेलायां न्यवेदिष्यति इति रोयिट्टर्स् वार्ताहरसंस्थ्यया आवेदितः। नेपालराष्ट्रस्थ संस्थाः व्यक्तयः च पार्श्वे स्थापितानां मिर्मूल्यीकृत-रुप्यकपत्राणां कृते नूतनपत्राणि स्वीकर्तुमेव नेपालस्य उद्यमः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ख्यापितेन रुप्यकपत्र मिर्मूल्यीकरणेन नेपालः-भूटान्  राष्ट्रौ कष्टे पतितौ अभवताम्। एतौ वाणिज्याय भारतस्य रुप्यकपत्राणि अधिकतया उपयुज्यन्ते। शुक्रवासरे समारभ्यमाणे भारतसन्दर्शन सन्दर्भे प्रधानमन्त्री नरेद्रमोदिनं तथा राष्ट्रपति रामनाथ कोविन्दं च मिलित्वा चर्चां कर्तुमेव शर्मा ओलिना निश्चितम्।

Thursday, April 5, 2018

भारते ज्ञानार्जितेषु भूरिजनाः उद्योगाय अयोग्याः।
         नवदिल्ली > ज्ञानार्जिताः युवकाः अधिकाः भारते वर्तते चेदपि तेषु भूरि जनाः विशेषतया तन्त्रांशविधानशास्त्र बिरुदधारिणः उद्योगायै अयोग्याः इति अध्ययनफलं प्रकाश्यते। विश्ववित्तालयेन तथा सान्फड् विश्वाविद्यालयेन च संयुक्ततया कृताध्ययने एव इदं दृष्टम्।  भरतस्य कलाशालातः बहिरानीतेषु अधिकाः उद्योगार्थिनः गुणविशिष्टतारहिताः इति तैः आवेदिताः। एतान् अपेक्षया रष्या राष्ट्रस्य तथा चीनस्य छात्राः उत्कृष्टाः इति आवेदने अच्यन्ते|   
          विश्वार्थिकालयस्य साह्येन टेक्निकल् एजूकेषन् क्वालिट्टि इंप्रूव्मेन्ट् इति कार्यक्रमस्य  भागतया एव अध्ययनं प्रवृत्तम्। अस्मिन् सप्ताहे एव आवेदनं केन्द्र मानवसंसाधन-मन्त्रालयाय समर्प्यते। आराष्ट्रं पञ्चसहस्रं प्रथमवर्ष तृतीयवर्षीययोः बि टेक् छात्राणां तथा निजीय संस्थातः चितानां २०० छात्राणां च कुशलतां समीक्ष्य एव आवेदनं सज्जीकृतम्। तन्त्रांशविधानशास्त्राध्ययनाय बह्व्यः कलालयाः निजीय क्षेत्रे स न्ति इति गुणविशषस्य अपचयस्य कारणत्वेन आवेदने उच्यते।

Wednesday, April 4, 2018

१००% विजयस्यकृते  ९ छात्राः विद्यालयात् निष्कासिताः।
          कोष़िक्कोट्> प्रतिशतं शतं विजयलक्ष्यं निधाय छात्राः  निष्कास्यन्ते। परीक्षायाः  पञ्चीकरणात् पूर्वम् एवम् अधार्मिकप्रक्रमाः विद्यालयाधिकृतैः क्रियन्ते। अध्ययनक्षमताराहित्यमेव कारणत्वेन उच्यते।
         करिपूर् एयर्पोर्ट् सीनियर्सेक्कन्टरि विद्यालयस्य नवम कक्ष्यायाः नवविद्यार्थिनः एव एवं बहिष्कृताः । एका विद्यार्थिनी च बहिष्कृतेषु अन्तर्भवति। शिशुवाटिकातः इतःपर्यन्तम् अत्रैव पठिताः एते। राक्षाकर्तॄणां परिदेवनस्य आधारेण चैल्ड् लैन् संस्थया घटनायां छात्रेभ्यः सत्यवचः स्वीकृतः। सि बि एस् सि विद्यालये अध्ययनाय एते अयोग्याः इति उक्त्वा एव छात्राः निष्कासिताः इति प्रमुख मलयाल भाषा पत्रिकायाः वार्ताहरान् प्रति एकस्य रक्षाकर्ता मनोजः अवदत् ।
     केन्द्र-शिक्षाधिकार-नियमान् अनुसृत्य दशमकक्षापर्यन्तं छात्रेभ्यः प्राथमिकशिक्षा याः दायित्वं  विद्यालयस्येव I दशमकक्षायां परीक्षाविजयः प्रतिशतं शतं कर्तुमुद्दिशय एव नवमकक्ष्यायाः केचन छात्त्राः एवं निष्कासिताः।

Tuesday, April 3, 2018

कोमण् वेल्त् क्रीडायाः समारम्भः बुधवासरे। शुभप्रतीक्षया भारतसङ्घः।
        गोल्ड् कोस्ट्> एकविंशति (२१)तम कोमण् वेल्त् क्रीडायाः समारम्भः बुधवासरे ओस्ट्रेलिया राष्ट्रस्य गोल्ड् कोस्ट् नगरे भविष्यति।  उद्घाटन-समारोहानन्तरं गुरुवासरे भविष्यति स्पर्धायाः समारम्भः। एप्रिल् मासस्य पञ्चदश (१५) दिनानि यावत् अनुवर्तन्ते क्रीडाः। कायिकस्पर्धाः एप्रिल् मासस्य अष्टमदिनाङ्कात्  समारप्स्यते। १९५ पुरुषाः १०५ स्त्रियः च भारतस्य विजयम् अभिलष्य क्रीडाङ्कणे अवतरिष्यन्ति।
       बाट्मिन्टण् क्रीडायां पि वि सिन्धु, सैना नेवाल्,  किदम्बी श्रीकान्त्, मल्लयुद्धे साक्षी मालिक् , कायिकक्रीडायां नीरज् चोप्र, वि नीन, नयन जयिंस्। मुष्टिथुद्धे मेरिकोम्,  विकास् कृष्ण, गोलिका प्रहारे जितु राय् नामकेषु एतेषु क्रीडकेषु   एव भारतस्य प्रतीक्षा 
विन्नी मण्डेला दिवंगता। 
Photo from -5news
         जोहन्नास्बर्ग् > दक्षिणाफ्रिक्काराष्ट्रस्य विमोचननायकस्य तथा भूतपूर्वराष्ट्रपतेः नेल्सन् मण्डेलावर्यस्य पत्नीपदमलङ्कृतवती विन्नी मण्डेला सोमवासरे दिवं गता। दक्षिणाफ्रिक्कायां वर्तितं वर्णविवेचनम् अवसादयितुं प्रवृत्ते आन्दोलने  मण्डेलावर्येण सह वीन्नी अपि सेनामुखे कार्यनिरता आसीत्। नवदक्षिणाफ्रिक्काराष्ट्रस्य माता इति विशेषणं प्राप्तवती विन्नी दीर्घकालेन रोगबाधिता आसीत्। तद्राष्ट्रस्य प्रशस्ततमे  राजनैतिकदम्पती आस्तां नेल्सन् मण्डेला विन्नी मण्डेला च।
दलितसंघानां भारतबंदे व्यापकाक्रमणम्। नव जनाः मृताः।
      नवदेहली- दलितजनानां पीडा रोधन नियमस्य दुरुपयोगस्य निरोधनाय उच्चतरनीतिपीठेन कृतान् संस्तुतीन् विरुद्ध्य आयोजिते भारतबंदे व्यापकं आक्रमणम्।मध्यप्रदेशकाज्ये मृतानां संख्या पञ्च जाता। पञ्चाब् राजस्थानम् बिहार उत्चरप्रदेशः झारखण्ड् इत्यादि राज्येषु अपि अक्रमघटनाः अभवन्।

Monday, April 2, 2018

काश्मीरः - ११भीकराः व्यापादिताः, द्वयोः सैनिकयोः वीरमृत्युः। 
     श्रीनगरम् > भीकरैः सुरक्षासैनिकैश्च सह सञ्जातेन  परस्परद्वन्देन तद्देशीयानां प्रक्षोभेण च जम्मुकाश्मीरप्रदेशः कलुषितः वर्तते। षोपियान् अनन्तनाग् जनपदस्थेषु त्रिषु प्रान्तेषु सञ्जातेषु प्रतिद्वन्देषु द्वौ सुरक्षासैनिकौ एकादश भीकराश्च मृत्युमुपगताः। चत्वारः सैनिकाः आहताः। 
     भीकरहत्यावृत्तान्तश्रनणेन तद्देशीयाः जनाः प्रक्षोभोत्सुकाः अभवन्। तान् प्रतिनिवर्तयितुं सैन्येन कृतेन प्रयत्नेन द्वौ देशवासिनौ हतौ। पञ्चाशत्कल्पाः जनाः व्रणिताश्च। लष्कर् ई तोय्बा, हिस्बुल् मुजाहिदीन् भीकराः एव हताः। शनिवासरादारभ्य एव प्रतिद्वन्दाः आरब्धाः। नैकाः भीकराः परं निलीयमानाः वर्तन्ते इति सैनिकवक्त्रा उक्तम्।

Sunday, April 1, 2018

इन्डोर् देशे यानस्य घट्टनेन अट्टः पतितः दशजनाः मृताः।
   इन्डोर्> मध्यप्रदेश राज्यस्य इन्डोर् देशे शनिवासरे रात्रौ अट्टगृहम् भग्नीकृत्य दशजनाः मृताः। पञ्च भग्नावशिष्टानाम् अन्तर्भागे बद्धाः इति आवेदनम्  आगच्छति। रक्षाप्रवर्तनानि अनुवर्तन्ते। रक्षितेषु द्वयोः अवस्था गुरुतरा एव।  अट्टगृहस्य पार्श्वे यानस्य घट्टनेन अपघातः जातः इति अनुमीयते। शनिवासरे रात्रौ सपाद नववादने (९:१५ ) आसीत् दुर्घटना।  कालान्तरेण अपघातावस्थायां प्राप्तः अट्टः असीत् अयम्। अट्टे भक्ष्यशाला वासप्रकोष्टाः च आसन्। तृतीय चतुर्थ वितानयोः उषिताः वासगृहोद्योगिनः अन्ये कर्मकराः च मृतेषु अन्तर्भवन्ति। दुर्घटनानन्तरं विलम्बं विना आरक्षकवृन्दैः अग्निशमनसेनया च रक्षाप्रवर्तनानि आरब्धानि। रक्षाप्रवर्तनानि आवेक्ष्यते इति राज्यस्य मुख्यमन्त्री शिवराज् सिंह चौहानः अवदत्।
जन्मग्रामस्य प्रेममनुभूय मलाला। 
              इस्लामबाद् > तालिबान् भीकराणां गोलिकाशस्त्राणि अतिजीव्य बालिकानां शिक्षायै नखशिखान्तं प्रवर्तमानायै नोबल् पुरस्कारजेत्र्यै मलाला यूसफ् सायि वर्यायै पाकिस्स्थानस्थः 'स्वात्' जन्मग्रामः प्रेमादरान् समार्पयत्भु भुषुण्डिशस्त्रपीडनानन्तरं ब्रिट्टन् राष्ट्रम् अघिवसन्ती मलाला गतदिने एव पाकिस्थानं प्राप्तवती। तदनन्तरं पितृभ्यां सोदराभ्यां पाक्मन्त्रिणा मरियम् औरङ्गसीबिना च सह स्वात् ग्रामं सम्प्राप्ता मलाला एकहोरां यावत् बन्धुभिः सुहृद्भिः च साकं व्यवहृतवती।