OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 14, 2016

 काश्मीर् सङ्घर्षः- स्वाभिमतान्  प्रस्ताव्य प्रधानमन्त्री।
  नवदहली > समीपकाले काश्मीरस्य विविधेषु प्रदेशेषु सञ्जाताः सङ्घर्षाः अन्यं कमपि भारतीयम्‌ इव मामपि दुःखयन्तीति प्रधानमन्त्री नरेन्द्रमोदी। काश्मीरसङ्घर्षाणां सन्दर्भे दहल्यां जाते सर्वकक्षियोगे भाषयन् आसीत् मोदी। काश्मीरस्य नेतृभिः जनपक्षतः विश्वासः आर्जनीयः, एतत्तु अत्यन्तापेक्षितः इति मोदी अवदत्। काश्मीरस्य सामूहिकस्थितिः इतोऽपि सङ्घर्षपूर्णा चेत् तत्रत्यानां साधु जनानां जीवनव्यवस्था अतिशोचनीया भविष्यतीति तेन सूचितम्।

बि एस् एन् एल् संस्थायाः रविवासराणां निशुल्कसेवनम् आगस्त् १५ तः आरभ्यते।
  नवदहली > बि एस् एन् एल् दूरवाणी उपभोक्तृणां कृते प्रख्यापितं रविवासराणां निशुल्कसेवनम् आगस्त् १५ तः आरभ्यते। रविवासरेषु बि एस् एन् एल् दूरवाणीतः सर्वान् सेवनदातृन् प्रति उपयोगाय शुल्कव्यवस्था न भविष्यति। अपि च बि एस् एन् एल् संस्थया दीयमानं रात्रिकालनिशुल्कसेवनम् अनुवर्तयिष्यति इति अधिकृतैः सूचितम्।


 मेसी राष्ट्रान्तरक्रीडां प्रत्यागमिष्यति।
  बूणस् ऐरिस् > अर्जन्टीना क्रीडकः लयणल् मेसी राष्ट्रान्तरपादकन्दुकक्रीडां प्रत्यागमिष्यति। अर्जन्टीना परिशीलकेन एड्गार्डो बौसेन सह स्पेयिन् मध्ये कृतात् अभिमुखभाषणात् परं दत्तायां प्रस्तावनायाम्‌ एव मेसी एतत् असूचयत्। अर्जन्टीनायाः कृते स्वपक्षतः इतोऽपि योगदानं करणीयम् इति इच्छा एव विरामनिर्णयस्य परिवर्तनकारणं इति सः अवदत्। कोपा अमेरिका अन्तिमक्रीडायाः पराजयात्परं तेन विरामप्रख्यापनं कृतमासीत्।

आमसोण् अन्तर्जालव्यापारसङ्घात् 
गोमयः अपि लप्स्यते।

नवदेहली > इ-कोमेर्स् मण्डलस्य प्रमुखेन आमसोण् व्यापारसङ्घेन गोमयव्यापाराय पर्यालोच्यते। गोमयस्य प्राधान्यमङ्गीकृत्य द्वित्राः इ-कोमेर्स् सङ्घाः गोमयव्यापारम् आरब्धवन्तः आसन्। एतेषां मध्ये आमसोण् सङ्घस्य प्रवेशः अन्तर्जालव्यापारमण्डले गोमयव्यापारे नूतनं परिवर्तनं भविष्यति। मण्डलेऽस्मिन्, धेनोः लभ्यमानानाम् उत्पन्नानामेव विपणनं कुर्वतः Gaukranti.org सङ्घस्यैव प्रामुख्यं वर्तते।

 केरळेषु व्यवसायमारब्धुम् अनुमतिः एकमासाभ्यन्तरे- इ पि जयराजः। 
कोष़िकोट् > केरळेषु व्यवसायमारब्धुम् अनुमतिः एकमासाभ्यन्तरे एव दातुं सर्वकारपर्यालोचना अस्तीति व्यावसायिकसचिवः इ पि जयराजः। एतदर्थम् आवश्यकं नयरूपीकरणम्‌ अचिरादेव करिष्यतीति मन्त्रिणा सूचितम्‌। व्यावसायिकानुमत्यै उपयुज्यमानम् एकजालकसंविधानं परिवर्त्य सर्वाः अपि अनुमतीः एकमासाभ्यन्तरे पूर्तीकर्तुं नूतनः व्यावसायिकनयः आविष्क्रियते इति तेन उक्तम्।


तीरदेशपालननियमे नव प्रतीक्षायाम् केरलम् ।। 
कोच्ची>तीरदेशपरिपालननियमः  पश्चिमघट्टसंरक्षणनियमः  एतयोः विषययोः केरलानाम् आश्वासहस्तैस्सह केन्द्रसर्वकाराः । मत्स्यबन्धनं कुर्वताम् गुणकरं परिवर्तनं नियमेषु परिगणयेयुः इति केन्द्रवनपरिस्थितिमन्त्रिणा अनिल् माधवदावे महाशयेन उक्तम् । पश्चिमघट्टसंरक्षणाय नूतनसमीपनञ्च आविष्करणीयमिति सर्वकारैः सूचितम् ।

वार्तामुक्तकानि
*विदेशमन्त्रिण्या सुषमास्‍वराजवर्यया  चीनस्य विदेशमन्त्रिणा साकं  परमाण्वापूर्तिकर्त्रृसमूहे भारतस्य सदस्‍यताविषयः  विस्‍तारेण चर्चितः । पाकिस्‍तानस्यावैधतयाधिकृत कश्‍मीरस्य चीन-पाकिस्‍तानार्थिकमार्गस्योपरि भारतेन चिन्‍ता प्रकटिता।
* देशस्य विभिन्नभागेषु तिरंगा इति त्रिवर्णध्वजयात्रा प्रारब्धा । गृहमंत्री राजनाथसिंहः झारखंडे वीर स्‍वतन्त्रतासेनानिने बिरसामुण्‍डाय श्रद्धाजलिस्समर्पितवान् ।
*बलुच् रिप्पब्लिकन् पार्टी इति दलस्याध्‍यक्षः ब्रहमदागबुगती बलुचिस्‍ताने भारतस्य  हस्‍तक्षेपस्याह्वानमकरोत् । तेन पाकिस्‍तानाधिकृतकाश्‍मीरे प्रधानमन्त्रिणः नरेन्‍द्रमोदिनः कृतटिप्‍पण्याः  स्‍वागतम्।