Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ सैनिकबहुमतयः प्रख्यापिताः ; ज्योतिप्रकाश् निरालाय अशोकचक्रम्।। राजनैतिकदलानां अड्गीकारं रोद्धुम् अधिकारः आवश्यकः इति निर्वाचकायोगः।

Thursday, November 2, 2017

Bookmark and Share
यू पि तापनिलये स्फोटनं - २० मरणानि। 
           रायबरेली > उत्तरप्रदेशस्थे राय्बरेलिप्रविश्यायां 'नाषणल् तेर्मल् पवर् कोर्परेशन्' संस्थायाः अधीनत्वे विद्यमाने तापनिलये संवृत्ते विस्फोटने विंशतिः कर्मकराः मृताः, शतप्रायाः क्षताः च। दुरन्तबाधितानां संख्या अधिकतरा स्यादिति उत्तरप्रदेशस्य मुख्यगृहसचिवेन उक्तम्। 
         रायबरेल्यां ऊंचहार् क्षेत्रस्थे २९ संवत्सराणि प्राचीने तापनिलयस्थे क्वथननालिका (Boiler) एव विस्फोटिता। २१० मेगावाट् शेषियुक्ताः पञ्च एककानि (unit) अत्र विद्यन्ते। ५०० मेगावाट् शेषियुक्तं एककान्तरमपि गते मार्च् मासे प्रवर्तनमारब्धमासीत्। अस्मिन् विद्यमानं क्वथनपेटकमासीत् विस्फोटितम्। देशीयदुरन्तसेनया रक्षाप्रवर्तनमारब्धम्। मृतानाम् आश्रितानां कृते लक्षद्वयरूप्यकाणां क्षतिसाहाय्यं मुख्यमन्त्रिणा योगि आदित्यनाथेन  प्रस्तुतम्।